________________
चूणिभाष्यावचूरी उ०-३ सू० १२-१३ प्रथमपश्चादुपस्थितयोर्वस्त्रादिग्रहणविधिः ६५ दको वायं चान्यं पुरतः कृत्वा विहरति कल्पते तस्यास्तन्निश्रयाचेल प्रतिग्रहीतुम् ॥ सू०१२॥
चूर्णी-'निग्गंथीए य' इति । निर्ग्रन्थ्याश्च, कीदृश्या इत्याह-गाथापतिकुलं गृहस्थगृहं पिण्डपातप्रतिज्ञया-आहारग्रहणेच्छया अनुप्रविष्टाया यदि चेलार्थः चेलस्य अर्थः प्रयोजनं अल्पवस्त्रत्वेन वस्त्रग्रहणप्रयोजन समुत्पधेत तदा तस्या निग्रन्थ्या आत्मनः निश्रया आत्मीयत्वेन 'इदं वस्त्रं मम भविष्यती'-त्येवंरूपया निश्रया लं वस्त्र प्रतिग्रहीतुं गृहस्थादादातुं नो कल्पते । तर्हि कथं कल्पते ? इति तद्विधिं प्रदर्शयति-तस्याः प्रवर्तिनीनिश्रया-'इदं वस्त्रं गृह्णामि मम प्रवर्तिनीनिश्रया, सा यस्याः कस्या मम अन्यस्या वा दास्यति सा ग्रहीष्यति' इत्येवंरूपया गृहस्थं प्रत्येवं वाचा प्रकटय्येत्यर्थः चे वस्त्रं प्रतिग्रहीतुं कल्पते । यदि नो चाथ प्रवर्तिनी सामाना सन्निहिता तत्र ग्रामे उपाश्रये वा न स्यात् नो भवेत्तदा तत्र ग्रामे यः सः यः कोऽपि सामानः संनिहितः स्यात् , कः ? इत्याह-आचार्यो वा, आचार्यः - यः पञ्चाचारान् स्वयं पालति परान् पालयति सः, तथा योऽथ वाचयति, गच्छस्य मेवीभूतः शरीराद्यष्टयपदायुक्तो भवेत्स आचार्यः संनिहितो भवेत् , तदभावे उपाध्यायः-उप-समीपम् एत्य अधीयते प्रवचनं शिष्यैः यस्मात् स वा भवेत् , तदभावे प्रवर्तकः-प्रवर्त्तयति आचार्योपदिष्टेपु कार्येषु तपःसंयमयोगवैयावृत्त्यसेवाशुश्रूषाऽध्ययनाध्यापनसूत्रार्थादिपु यथायोग्यं बलावलं विचार्य नियोजयति यः स प्रवर्तको भवेत् , तदभावे स्थविरो वा-सयमयोगेषु सीदतः साधून् ऐहिकामुष्मिकापायप्रदर्शनपूर्वकं ज्ञानादिषु स्थिरीकरोति यः स स्थविरो वा भवेत् , तदभावे गणी वा-गण कतिपयसाधुसमुदायः स्वस्वामिसम्बन्धेन यस्यास्ति सः, यः साधुसमुदायेन सह विचरणशीलः स गणी वा भवेत् . तदभावे गणधरो वा यः गणचिन्ताकारको गणस्य योगक्षेमविधायकः, तत्र अप्राप्तस्य प्राप्तिर्योगः, प्राप्तस्य रक्षणं क्षेमस्तद्विधायको गणघरो वा भवेत् , तदभावे गणावच्छेदको वा गणस्य साधुसमुदायस्यावच्छेदं विभागं करोति यः गणव्यवस्थाकारकः स गणावच्छेदको वा भवेत् , तदभावे यं चान्यं कमपि गीतार्थ पुरतः कृत्वा साध्वी तदाज्ञया विहरति सो वा तत्र संनिहितो भवेत् , एतेपु आचार्यादिषु यः कोऽपि तदा संनिहितो भवेत् तन्निश्रया तन्निश्रामधिकृत्य तस्या निम्रन्थ्याः चेलंवस्त्रं प्रतिग्रहीतुं कल्पत्ते, भिक्षार्थ गृहस्थगृहे गतया निग्रन्थ्या वस्त्रावश्यकतायां स्वनिश्रया कदापि वस्त्रं न ग्रहीतव्यमिति भावः ॥ सू० १२ ॥
पूर्वसूत्रे निम्रन्थ्या वस्त्रग्रहणविधिः प्रोक्तः, साम्प्रतं प्रथमतया प्रत्रजितुकामस्य पूर्वोपस्थितस्य च वस्त्रग्रहणविधिमाह-'निग्गंथस्स' इत्यादि ।
सत्रम-निग्गंथस्स णं तप्पढमयाए संपव्वयमाणस्य कप्पइ रयहरणगोच्छगपडिग्गहमायाए तिर्हि कसिणेहिं वत्थेहि आयाए संपन्वइत्तए, से य पुव्योवहिए सिया एवं से