________________
-
~
चूणिभाष्यावचूरो उ० ३ सू० ९-१२
भिन्नाभिन्नवस्त्रग्रहणविधिः ६३ वार्यत्वात्सा कर्तुमुचितैव । एवं यथोक्तप्रमाणचोलपट्टादिवस्त्रधारणस्य भगवता समुपदिष्ठत्त्वातत्प्रमाणार्थं यतनया वस्त्रच्छेदने कोऽपि न दोषः शास्त्रे साधोः सकलक्रियाया यतनयैव करणीयत्वेन प्रतिपादनात् , उक्तं च-दशवै० ४ अ०
जयं चरे जयं चिठे, जयमासे जयं सए । ___ जयं भुंजतो भासंतो, पावकम्मं न बंधइ ॥ तस्मात् भिन्नवस्त्रधारणस्य भगवतानुज्ञातत्वाद् निर्ग्रन्थनिम्रन्थीभिरभिन्नवस्त्रं न धारयितव्यं न परिभोक्तव्यम् , भगवदाज्ञापालने न कोऽपि दोषः 'आणाए मामगं धम्म' इत्याचारागवचनप्रामाण्यादिति ॥ सू० ८ ॥
श्रमणैर्वस्त्राणि कियन्ति किंप्रमाणानि चोपकरणत्वेन ग्रहीतव्यानि तत्राह भाप्यकार:'भिन्नाई' इत्यादि ।
भाष्यम्--भिन्नाई वत्थाई, उवगरणे कइ य धारणिज्जाई । थविरे कप्पे चउदस, साडगमाईणि णेयाइं ॥६॥ छाया-भिन्नानि वस्त्राणि उपकरणे कति च धारणीयानि ।
स्थविरे कल्पे चतुर्दश, शाटकादीनि ज्ञातव्यानि ॥६॥ अवचूरी-'मिन्नाई' इति । अभिन्नानि वरत्राणि श्रमणेने ग्रहीतव्यानि नैव च धारणीयानीति भगवता प्रतिपिवं, तेनायाति-भिन्नानि धारणीयानि, तानि श्रमणानामुपकरणे उपकरणनिश्रायां कति–कतिसंख्यकानि धारणीयानि ? इति प्रश्ने प्राह-अत्रास्मिन् स्थविरे कल्पे साधूनां चतुर्दश वस्त्राणि शाटकादीनि उपकरणे ज्ञातव्यानि, तानीमानि-शाटकत्रयम् ३, चोलपट्टकः ४. आसनम् ५, मुखवस्त्रिका ६, प्रमार्जिका ७, पात्राणामञ्चलत्रयम् १०, भिक्षाधानी ११, माण्डलकवस्त्रम् १२, रजोहरणदण्डाऽऽवरकवस्त्रं 'निषद्या'इति समयभाषाप्रसिद्धम् १३, चतुर्दशच धावनजलादिगालनवस्त्रम् १४, इति । एतानि चतुर्दश उपकरणानि स्थविरकल्पिकानां कल्पन्ते । गृहस्थैः स्वनिमित्तं भिन्नं वस्त्रं समादाय तन्मध्याद् यथोक्तप्रकारेण चतुर्दशोपकरणानि यतनया विभिद्य करणीयानि स्वस्वप्रमाणेन उपकरणविधायनस्य भगवताऽनुज्ञातत्वादिति ॥ ६ ॥
पूर्वमभिन्नवस्त्रधारणे निषेधः प्रतिपादितः, साम्प्रतं स्पष्टप्रतिपत्त्यर्थं तद्विपरीतं भिन्नवस्त्रधारणसूत्रमाह-'कप्पइ० मिन्नाई' इत्यादि ।
सूत्रम्-कप्पइ निग्गंथाण वा निग्गंथीण वा भिन्नाइं वत्थाई धारित्तए वा परिहरित्तए वा ॥ सू० ९॥
छाया-कल्पते निर्ग्रन्थानां वा निम्रन्थीनां वा भिन्नानि वस्त्राणि धत्तं वा परिहत्तुं वा ॥ सू० ९॥
चूर्णी-'कप्पई' इति । कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा भिन्नानि छेदितानि गृहस्थैः स्वनिमित्तं स्फाटितानि वस्त्राणि धर्तुं परिहत्तुं वा । अन्यत्सर्वं पूर्वसूत्रवदेव विज्ञेयम् ॥ सू०९ ॥