________________
ફર
बृहत्कल्पसूत्र
मध्यमोत्कृष्टभेदात् मूल्ययुक्त कृत्स्नस्य जघन्यमध्यमोत्कृष्टत्वं देशानुसारेण यद् वस्त्रं यत्र जघन्यमूल्यकं तदपि अन्यत्र मध्यमोत्कृष्टमूल्यकं जायते इति यथासंभवं स्वयमूहनीयम् ४ ॥ सू० ७ ॥
पूर्वसूत्रे तावत् श्रमणश्रमणीनामकृत्स्रं वस्त्रमनुज्ञातम्, संप्रति तस्याकृत्स्नस्य वस्त्रस्य भिन्नत्वमभिन्नत्वं च भवतीति प्रथममभिन्नानि वस्त्राणि प्रतिषेधितुमाह- 'नो कप्पइ० अभिन्नाह' इत्यादि । सूत्रम् - नो कप्पइ निग्गंथाण वा निग्गंथीण वा अभिन्नाई वत्थाई धारितए वा परिहरित वा ॥ सु० ८ ॥
छाया - नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा अभिन्नानि वस्त्राणि धर्चु वा परिहर्तु वा ॥ सु०८ ॥
चूर्णी - 'नो कप्पड़' इति । निर्ग्रन्थानां निर्ग्रन्थीनां वा अभिन्नानि अच्छिन्नानि अस्फाटितानि पूर्वं गृहस्थैः स्वनिमित्तं न खण्डीकृतानि वस्त्रोत्पादनस्थानाद् यथा आगतानि तथैव स्थितानि तादृशानि वस्त्राणि घ - स्वनिश्रया स्थापयितुम्, परिहर्त्तु परिभोक्तुं नो कल्पते। स्वहस्तेन छियमाने वायुकायादिविराधना संभवति । ननु कृत्स्नाभिन्नयोः समानार्थकत्वात्पूर्वसूत्राला - पक एवात्रापि प्रतिपादित इति पिष्टपेषणवद् भवति, ततः पुनरुक्तत्वात् सूत्रमिदं निरर्थकं प्रतिभाति इति न, कारणसापेक्षत्वादस्य सूत्रस्य । किं पुनस्तत्कारणम् ? इति चेदुच्यते - अनेन सूत्रेण वस्त्राणां गणनालक्षणं प्रमाणलक्षणं चेति द्विविधं प्रमाणं नियम्यते, तथाहि -कियन्ति किं प्रमाणानि वा तानि वस्त्राणि श्रमगैर्ग्रहीतव्यानि ? इत्येवमत्र निरूप्यते इति नास्य नैरर्थक्यमिति । अत्र कश्चित् शङ्कते - यस्मादभिन्नस्य वस्त्रस्य धारणे श्रमणानां पूर्वसूत्रोक्ता दोषा भवन्ति तर्हि भिन्नमपि वस्त्रं गृह्यते तदपि यदि चोलपट्टादिप्रमाणेनाऽतिरिक्तमधिकं लम्वं भवेत्तदा तस्यापि पुनर्भेदनमावश्यकमेव तर्हि ते दोषा अत्रापि संभवन्त्येव, तथा हि-वस्त्रे विद्यमाने 'चिर' इत्यादिशब्दसंमूर्च्छनं भवति, सूक्ष्मपदमावयवाश्चोड्डीयन्ते, तैश्च लोकान्तपर्यन्तं गच्छद्भिर्बहूनां त्रसप्राणिप्रभृतीनां सूक्ष्मजन्तूनां विराघनाऽवश्यम्भाविनी । अथवा वस्त्रछेदनजन्यैः शब्दपदमवातादिपुद्गलैर्लोकान्तं यावद्रच्छद्भिस्तैश्चालिताः सन्तोऽन्ये तत्पुछा लोकान्तपर्यन्तं गच्छन्ति एवं रीत्याऽन्यान्य पुद्गलप्रेरिताः पुद्गलाः प्रसरन्तः क्षणेन ऊर्ध्वमधस्तिर्यक् चतसृप्वपि दिक्षु सकलमपि लोकमापूरयन्ति तस्मा - त्सकललोकपूरणात्मकमारम्मं सूक्ष्मजीवविराघनया सदोषं बुद्ध्वा यथालब्धं लघु दीर्घ लम्वं विस्तृतं वा भवेत् तत्तादृशमेव श्रमणैर्धारयितव्यं, न पुनस्तस्य छेदनादिकं कर्त्तव्यमिति, अत्राह - नोचिता तवैपा शङ्का, यतो यद्येवं तर्हि भिक्षादिनिमित्तमपि चेष्टादिकं न कर्त्तव्यं भवेत्, भिक्षासंज्ञाभूम्यादिगमनभोजनशयनादिरूपाभिरीर्याभिर्विना तु शरीरस्य पौगलिकत्वात्तन्निर्वाहोऽपि न स्यात्, शरीरमन्तरा च सयमस्यापि व्यवच्छेदः समापतेत्, तस्माद् भिक्षादिनिमित्तमीर्यादिचेष्टाया अनि