________________
चूर्णि-भाष्या-ऽवचूरो उ० ३ सू० ६-८ निर्ग्रन्थनिर्ग्रन्थीनां वस्त्रग्रहणविधिः ६१
छाया-कल्पते निर्ग्रन्थानां वा निम्रन्थीनां वा अकृत्स्नानि चर्माणि धर्तु वा परिहषु वा ॥ सू०६॥
चूर्णी- 'कप्पई' इति । निर्ग्रन्थानां निर्ग्रन्थीनां वा अकृत्स्नानि अपरिपूर्णानि खण्डरूपाणि चर्माणि धत्तुं परिहत्तं वा कल्पते । पूर्वोक्तसन्धिवातादिकारणे वैद्यादेशेन जान्वादौ वन्धयितुमावश्यकता भवेत्तदा चर्मखण्डं ग्रहीतुं कल्पते नतु कृत्स्नमिति कारणिकसूत्रमिदं बोध्यम् ।
ननु पूर्व सूत्रे कृत्स्नचर्म निषिद्धं तेनैवाऽऽयातं यत् अकृत्स्नं कल्पते इति तेनास्य सूत्रस्य नैरर्थक्यमुपजायते, अत्राह–साधुसमुदाये नानादेशीयाः प्रकृतिभद्रका विनेया भवन्ति ते जानन्ति यत् भगवता कृस्नचर्म निषिद्धं तेन चर्ममात्रं न ग्राह्यम् , एवं सति वातादिकारणे वैद्यादेशो निष्फलो भवेत् वातादिनिवारणं न भवेत् तेन संयमाराधन दुःशक्यं जायतेऽतो भगवता तेषां स्पष्टबोधार्थमिदं सूत्रमत्रोपन्यस्तं ततो नास्य सूत्रस्य नैरर्थक्यमित्यग्रेऽपि बोध्यम् ॥ सू० ६ ॥
पूर्वसूत्रद्वये कृत्स्नाऽकृत्स्नचर्मग्रहणे विधिनिषेधौ प्रतिपादितौ, साम्प्रतं वस्त्रविषयकं सूत्रमाह'नो कप्पइ० कसिणाई वत्थाई' इत्यादि । ।
सूत्रम्-नो कप्पइ निग्गंधाण वा निग्गंथीण वा कसिणाई वत्थाई धारित्तए वा परिहरित्तए वा । कप्पइ निगंथाण वा निग्गंधीण वा अकसिणाई वत्थाईधारित्तए वा परिहरित्तए वा ॥ सू० ७॥
छाया--नो फल्पते निर्ग्रन्थानां वा निम्रन्थीनां वा कृत्स्नानि वस्त्राणि धर्तु वा परिहर्नु वा, कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा अकृत्स्नानि वस्त्राणि धर्नु वा परिहत्तुं वा ॥ सू० ७॥
चूर्णों-'नो कप्पई' इति । निर्ग्रन्थानां निर्ग्रन्थीनां कृत्स्नानि परिपूर्णानि अखण्डानि यथाप्रकाराणि उत्पादनस्थानादागतानि तथाप्रकाराण्येव वस्त्राणि धर्तुं परिहर्तुं वा नो कल्पते, कृत्स्नं चतुर्विधं द्रव्यक्षेत्रकालभावभेदात् , तत्र द्रव्यकृत्स्नं द्विवित्र भवति सकलकृत्स्नं प्रमाणकृत्स्नं चेति । तत्र द्रव्यतः सकलकृत्स्नं वस्त्रपर्यन्तगततन्तुसहितं परिपूर्णकोमलस्पर्शयुक्तम् अनुपहतम् अञ्जनखञ्जनादिदोषवर्जितं सदशाकं 'दशा' किनारी,इति प्रसिद्धं तत्सहितं तादृशं वस्त्रं द्रव्यतः सकलकृत्स्नं प्रोच्यते, तदपि जघन्यमध्यमोत्कृष्टभेदेन त्रिविधम् , तत्र जघन्यं मुखवनिकादिकम् , मध्यम चोलपट्टादि,उत्कृष्ट प्रावरणादि, इदं त्रैविध्यमपि सर्वप्रकारवस्त्रेषु बोध्यम् १, यत्-दैर्ध्यविस्ताराभ्यां यथोक्तप्रमाणतोऽतिरिक्तं तत् द्रव्यतः प्रमाणकृत्स्नम् २, क्षेत्रकृत्स्नं यत् यस्मिन् देशे दुर्लभं वा भवेत् एकदेशनिष्पन्नं वनमन्यस्मिन् देशे वहुमूल्यं भवति, बहुमुल्यं यथा पूर्वदेशनिष्पन्नं वस्त्रं लाटदेशं प्राप्य बहुमूल्यं भवति २, कालकृस्न-यस्मिन् काले यद् वस्त्रं बहुमूल्यं भवति यथा-ग्रीष्मे सूक्ष्मवस्त्रं, शिशिरे कम्बलादि, वर्षासु कुङ्कुमखचितादि ३, भावकृत्स्नं द्विविधम्-वर्णयुतं मूल्ययुतं च, तत्र वर्णयुत्तं पञ्चविधं कृष्णादिवर्णमेदात् , मूल्ययुतं त्रिविधम्-जघन्य