________________
वृहत्कल्पसूत्र पंणं भवेत् तद् 'आगेरी'इति मुनिभाषाप्रसिद्धं तथाविधं परिभुक्तमपि न कल्पते । तदपि च सलोमचर्म परिभुक्तं प्रातिहारिकं च एकरात्रिकं एकाहोरात्रपर्यन्तमेव कल्पते किन्तु नो चैव खलु अनेकरात्रिकं द्वित्रिचतुराद्यहोरात्रपर्यन्तं कल्पते अर्शोभगंदर-रोगादिकारणजाते साधुना सलोमचर्म परिभुक्तं प्रातिहारिकमेकरात्रिकम् एकाहोरात्रमर्यादित ग्राह्यं, न तदधिकाहोरात्रपर्यन्तमिति भावः ।
अत्र शङ्कते कश्चित्-यत् निर्ग्रन्थानां सलोमचर्मानुज्ञातं निर्ग्रन्थीनां च तन्निषिद्धं तत् किमत्र कारणम् महाव्रतानां समानत्वात् ? तत्राह-साध्व्यः स्वभावतः कोमलास्ततस्तासां कोमलस्पर्शतः पूर्वभुक्तभोगानां स्मृतिकौतुकादिना बह्मव्रते शङ्कोत्पत्तिसंभवात् । निर्ग्रन्थानां तदभावादिति । वस्तुतस्तु इदं कारणिक सूत्रम् , उत्सर्गतस्तु साधूनामपि तन्न कल्पते हिंसानुमोदनदुष्प्रतिलेख्यत्वादिदोषसद्भावादिति । सू० ४ ॥
पूर्व सलोमचर्म साध्वीनां निषिद्धं, साधूनां च तस्य विधिना ग्रहणमनुज्ञातम् , साम्प्रतं चर्मप्रसङ्गात्कृस्नचर्मनिषेधप्रतिपादकं साधुसाध्वीनां समुच्चयसूत्रमाह-नो कप्पइ० कसिणाई चम्माई' इत्यादि।
सूत्रम्-नो कप्पइ निग्गंथाण वा निग्गंथीण वा कसिणाइ चस्माई धारित्तए वा परिहरित्तए वा ॥ सू० ५॥
छाया-नो कल्पते निग्रन्थानां वा निम्रन्थीनां वा कृत्स्नानि चर्माणि धर्नु वा परिहत्तुं वा ॥ सू० ५॥
चूर्णी-'नो कप्पई' इति । निर्ग्रन्थानां निर्ग्रन्थीनां द्वयानामपि कृत्स्नानि परिपूर्णानि अखण्डानि वर्गप्रमाणादिभिः प्रतिपूर्णानि चर्माणि धत्तु पार्श्वे स्थापयितुं परिहर्तु परिभोक्तुं वा नो कल्पते, अनेनेदमायातम्-यत् खण्डितानि खण्डशः कृतानि वर्गप्रमाणादिभिरपरिपूर्णानि तु निम्रन्थनिम्रन्थीनां कल्पते, इति, अनेन ज्ञायते यथासंभवं साधूनां चर्मण आवश्यकता भवेत् 'प्राप्तौ सत्यां निषेध' इतिवचनात् , सत्यम् यथासंभवमावश्यकता भवेदपि-सन्धिवातादिकारणे कदाचित् जान्वादौ बन्धयितुं वैद्यादेशो भवेत् तदा तच्चर्म खण्डितमेव ग्राह्य, नतु परिपूर्णम् । अन्यच्च परिपूर्णचर्म अन्यतोर्थिकसाधव उपकरणत्वेन गृह्णन्ति ततस्तादृशे परिपूर्णे चर्मणि गृहीते प्रवचनस्योद्धाहो भवेत् यत् परपापण्डिवदेतेऽपि मृगव्याघ्रादिचर्म गृह्णन्तीति तस्मात् कृत्स्नचर्म निर्ग्रन्थनिम्रन्थीनां निषिद्धं भगवतेति बोध्यम् ॥ सू० ५॥
पूर्वं कृत्स्नचर्म ग्रहणं साधुसाध्वीनां निषिद्धं किन्तु वातरोगादिकारणे अकृत्स्नचर्मणो यथासंभवमावश्यकता जायते इति चर्मसम्बन्धिकारणिकसूत्रमाह-'कप्पइ० अकसिणाणि चस्माई' इत्यादि ।
सूत्रम्-कप्पइ निग्गंधाण वा निग्गंथीण वा अकसिणाई चम्माइंधारित्तए वा परिहरित्तएवा ॥ सू०६॥