________________
चूर्णि-भाष्याऽवचूरी उ० १ सू० ३-५ निम्रन्थनिर्ग्रन्थीनां चर्मग्रहणविधिः ५९ प्वपि शुद्धभगमपेक्ष्य गच्छेत् । अत्रायं विशेषः लानादिजिज्ञासावाचनाप्रच्छनादिकारणजाते पुरुषसाक्षिपूर्वकं गृहस्थस्त्रीसाक्षिपूर्वकं च द्वितीयया तृतीयया वा साच्या सहिता भूत्वा पूर्वोक्तविधिना यतनया गच्छेदिति भावः । शेष सर्व पूर्वसूत्रोक्तवदेव विज्ञेयम् ।। सू० २ ॥
पूर्व ब्रह्मवतरक्षणार्थ निम्रन्था निर्ग्रन्ध्यश्च परस्परं स्वान्यतरोपाश्रये न गच्छेयुरिति प्रतिपादितम् , एवं ब्रह्मत्रतरक्षणायैव निर्ग्रन्थीभिस्तादृशमुपकरणमपि न प्रतिग्रहीतव्यं येन ब्रह्मव्रते बाधा स्यादिति विभाव्य साध्वीनां सलोमचर्मग्रहणनिषेधं प्रतिपादयन्नाह-'नो कप्पइ० सलोमाई' इत्यादि,
सूत्रम्-नो कप्पइ निग्गंथीण सलोमाई चम्माइं अहिट्टित्तए । सू०३ ॥ छाया-नो कल्पते निर्ग्रन्थीनां सलोमानि चर्माणि अधिष्ठातुम् ॥ सू० ३ ॥
चूर्णी-'नो कप्पई' इति । निर्ग्रन्थीनां सलोमानि लोमसहितानि चर्माणि मृगादिचर्माणि अधिष्ठातुं तदुपरि उपवेष्टुम् उपवेशनार्थ सरोमचर्माणि उपभोक्तुं नो कल्पते । सलोमचर्मोपरि साध्वीमिर्नोपवेष्टव्यमिति भावः । अनेनायातं निर्लोमचर्माणि साध्वीनां कल्पते इति न, सलोम. निर्लोमचर्मणोईयोरपि ग्रहणे जीववधतदनुमोदनक्रिया समापयेत । सलोमचर्मोपरि समुपवेशनेन संयमात्मविराधना भवति यथा--सुकुमाललोमस्पर्शेण मनोविकारादिदुर्भावसंभवात् , लोममध्ये स्थितानां कुन्थुपिपीलिकादीनां दुष्प्रतिलेख्यत्वाच्च संयमविराधना, लोमशुषिरभागे कण्टकवृश्चिकादिनाऽऽत्मविराधना च भवति ॥ सू० ३॥ -
पूर्व निर्ग्रन्थीनां सलोमचर्मोपरि समुपवेशनं निषिद्धम् , संप्रति निर्ग्रन्थानां तानि कल्पते इति तद्विधिं प्रदर्शयति-'कप्पइ' इत्यादि ।
सूत्रम्-कप्पइ निग्गंथाणं सलोमाई चम्माइं अदिहित्तए, सेवि य परिभुत्ते नो चेवणं अपरिमुत्ते, सेवि य पडिहारिए नो चेव णं अपडिहारिए, सेवि य एगराइए नो चेवणं अणेगराइए ॥ सू०४॥
छाया-कल्पते निर्ग्रन्थानां सलोमानि चर्माणि अधिष्ठातुम्, तदपि च परिभुक्त नो चैव खलु अपरिभुक्तम्, तदपि च प्रातिहारिकम् नो चैव खलु अप्रातिहारिकम, तदपि च एकरात्रिक नो चैव खलु अनेकरात्रिकम् ॥ सू०४॥
ची _कप्पड' इति । कल्पते निर्ग्रन्थानां सलोमानि-लोमसहितानि चर्माणि अधिष्ठातुम्-परिभोक्तुम् किन्तु तदपि च सलोमचर्म परिभुक्तं लोहकारादिभिरुपवेशनादिना परिभोगविषयीकृतं कल्पते इति सम्बन्धः, एवमग्रेऽपि बोध्यम् । किन्तु नो चैव खलु अपरिभुक्तं गृहस्थैः पूर्व न परिभुक्तं चेत्-तन्न कल्पते । तत् परिभुक्तमपि सलोमचर्म प्रातिहारिकं कार्यानन्तरं पुनः प्रत्यावर्त्तनीयं, 'कार्यानन्तरं पुनः प्रत्यर्पयिष्यामी'-त्युक्त्वा यदानीयते तत् प्रातिहारिकं कथ्यते 'पडिहारी' इति मुनिभाषाप्रसिद्धं, तत्प्रकारकं प्रातिहारिकं कल्पते किन्तु न चैव खलु अप्रातिहारिकं पुनर्न प्रत्य