SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ वृहत्कल्पस्ने वस्तुनो निश्चयकरणम् ९, ततश्चान्ते शनैः शनैरेवंकरणपूर्वकं तया सह संपर्कसाधनम् इति दशमं स्थानम् १०, एतानि दशापि स्थानानि निर्ग्रन्थैः परिहरणीयानि नानाविधदोपसंघातसंभवादिति ॥ १॥ कारणे गमनेऽपि कार्य कृत्वा शीघ्र पुनः प्रत्यावर्तेत, अधिकस्थितौ अधिकरणसंभवात् ॥ २॥ कारणवशादपि साध्वीनामुपाश्रये विधिना गन्तव्यम् न त्वविधिना, विधिश्च यथा-गणचिन्ताकारको गणघरो यदि वस्त्रादिदानादिनिमित्तं ग्लानायाः शाताप्रच्छनार्थ दा गच्छेत्तदा त्रिषु स्थानेषु नैषेधिकी कुर्यात्-अग्रद्वारे १, मध्यभागे २, आसन्नभागे च ३ । नैषेधिकीत्रयं कृत्वा तत्र प्रविशेत् तेन उपाश्रयस्थिताः साध्व्यः वस्त्रावरणादिना सावधाना भवेयुः । अत्र कारणं विधि चाश्रित्य चत्वारो भङ्गा भवन्ति,तथाहि-अकारणे अविधिना १, अकारणे विधिना २, कारणे अविघिना ३, कारणे विधिना ४ । अत्र चतुर्थो भङ्गः शुद्धः समाचरणीयो लभ्यते । पुनरपि सहिण्वसहिष्णुश्रमणश्रमणीशब्दानाश्रित्य चत्वारो भङ्गा भवन्ति तथाहि-श्रमणी असहिष्णुः श्रमणोऽपि असहिष्णुः १, श्रमणी-असाहष्णुः श्रमणः सहिष्णुः २, श्रमणी सहिष्णुः श्रमणः असहिष्णु: ३, श्रमणी सहिष्णुः श्रमणोऽपि सहिष्णुः ४ । एष्वपि चतुर्थो भङ्गः कारणे ग्राह्यः ॥ निम्रन्थस्य साध्वीनामुपाश्रये गमनस्यान्यान्यपि कारणानि भवन्ति,तेपूपस्थितेषु निर्ग्रन्थस्य तत्र पूर्वोक्तशुद्धभगानुसारेण गमनं कल्पते, तानि यथा-उपाश्रयस्य संस्तारकस्योपधेर्वा वितरणार्थम् १, संयमे सीदन्तीनां परिपत्रस्तानां स्थिरीकरणार्थम् २, प्रतिश्रये अस्वाध्यायिक सति श्रुतस्योद्देशमनुज्ञां वा विधातुम् ३, तासां परस्परसंजाताधिकरणस्य व्युपशमनार्थम् ४, प्रवर्त्तिन्यां कालधर्मप्राप्तायां सत्यां गणचिन्तार्थम् शेषसाध्वीनां संसारस्वरूपप्रदर्शनपूर्वकं धर्मोपदेशेनाश्वासनार्थं वा ५, ग्लानाया औषधभैषज्यादिप्रदानाथम् ६, उपाश्रयेऽग्निना दग्धे जलपूरेण प्लाविते वा तद्व्यवस्थाकरणार्थम् ७, साध्वीनां देवमानुपतैरेश्चोपसर्गशमनार्थम् ८, भक्तप्रत्याख्यानाद्यनशनप्रतिपन्नायाः परिकर्मजिज्ञासाथै चेति ९ । एतादृशेप्वन्येष्वपि कारणेपूत्पन्नेषु श्रमणीनामुपाश्रये श्रमणानां गन्तुं कल्पते, तत्र भगवदाज्ञातिक्रमणदोपाभावात् ॥ ३ ॥ पूर्व निग्रन्थीनामुपाश्रये निर्ग्रन्थानां स्थानादिकरणं निषिद्धम् , साम्प्रतं तद्वैपरीत्येन निम्रन्थीनां निर्ग्रन्थोपाश्रये तान्येव स्थानादीनि निषेधयितुमाह-'नो कप्पड़ निग्गंथीणं' इत्यादि । सूत्रम्-नो कप्पइ निग्गंधीणं निग्गंथउवस्सयंसि चिहित्तएवा जाव काउस्सग्गं करेत्तए ठाणं वा ठाइत्तए । सू०२॥ छाया-नो कल्पते निम्रन्थीनां निर्ग्रन्थोपाश्रये स्थातुं वा यावत् कार्योत्सर्ग कर्तुम् स्थानं वा स्थातुम् ॥ सु० २ ॥ ची-'नो कप्पई' इति । यथा पूर्व निर्ग्रन्थानां निर्ग्रन्थ्युपाश्रयेऽवस्थानादि निषिद्धं तथैखात्र निर्ग्रन्थीनां निर्ग्रन्थोपाश्रयेऽवस्थानादि कत्तुं न कल्पते' इति प्रतिपादितम् । यदि ग्लानसाधुशरीरसमाविजिज्ञासाथ गणचिन्ताकारकगणधरादुपध्यादिमार्गणार्थ वा निम्रन्थी साधूपाश्रये गच्छेतदा कारणविधिभङ्गप्रदर्शितशुद्धभगमपेव्य नेषेधिकीत्रयपूर्वकं गच्छेत् । एवं असहिष्णु-सहिष्णु- भङ्गे
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy