________________
चूणिभाष्यावचूरी उ० २. सू० २६
उद्देशक्षमाप्तिः ५५ जायन्ते, तैर्वच्चासूत्रैश्च प्रावरणास्तरणादीनि निष्पादयन्ति, तत्सूत्रनिष्पन्नं रजोहरणं वच्चाचिप्पकमुच्यते । एवं देशविशेषे मुजाभिधस्तृणविशेषः, तमपि कुट्टयित्वा पूर्ववदेव सूत्राणि कर्त्यन्ते,तैः सूत्रैनिष्पन्नं रजोहरणं मुञ्जचिप्पकं प्रोच्यते। वस्त्रप्रकरणोक्तरीत्यैव सूत्रोक्तानां पञ्चविधानां रजोहरणानां ग्रहणं श्रमणैः कर्तव्यम् । तत्रापि क्रमेण पूर्वपूर्वस्याभावे उत्तरोत्तररजोहरणं ग्राह्यत्वेन बोध्यम् । उत्सर्गेण तु सूत्रे प्रथगतया प्रोक्तम् और्णिकमेव रजोहरणं ग्राह्यं, सूत्रे तस्य भगवता प्रथमतया गृहीतत्वादिति ॥ सू० २६ ॥ इति श्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त
"जैनाचार्य-पदभूषित-कोल्हापुरराजगुरु-वालब्रह्मचारि-जैनाचार्य-जैनधर्म-दिवाकर-पूज्यश्री-घासीलालचतिविरचितायां"बृहत्कल्पसूत्रस्य"
चूर्णि-भाण्या-ऽवचूरीरूपायां व्याख्यायां द्वितीयोद्देशकः समाप्तः ॥२॥