SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ । अथ तृतीयोद्देशकः। व्याख्यातो द्वितीयोदेशकः, साम्प्रतं तृतीयोदेशकः प्रस्तूयते, अत्र द्वितीयोदेशकान्तिमसूत्रेणास्य तृतीयोद्देशकस्यादिसूत्रेण सह कः सम्बन्धः ? इति भाग्यकारः सम्बन्ध प्रदर्शयति'वत्थरोहरणाणं' इत्यादि । भाष्यस्-वत्थरओहरणाणं, पुव्वं वुत्तो विही समासेण । तेर्सि निगंथीणं, दाणविही एत्य नायव्यो ॥१॥ गच्छइ तासि वसहि, गणचिताकारगो पयाए । तस्ल विही इह कत्थइ, संबंधो एत्य एसेव ॥२॥ छाया-वस्त्ररजोहरणानां पूर्वमुक्तो विधिः समासेन । तेपां निग्रन्थीभ्यो, दानविधिरन ज्ञातव्यः ॥१॥ गच्छति तासां वसति, गणचिन्ताकारकः प्रदातुम् । तस्य विधिरिह कथ्यते, सम्बन्धोऽत्र एप पव ॥२॥ अवचूरी-'वत्य' इति । पूर्व द्वितीयोद्देशस्वान्तिमे मूत्रद्वये वस्त्ररजोहरणानां विधि:वस्त्रस्य पञ्चविधत्वं रजोहरणस्य पञ्चविधत्वं चेति तद्रूपो विधिः समासेन संक्षेपेण उक्तः कथितः । अत्र अस्मिन् तृतीयोदेशकस्य प्रथमसूत्रे तेषां पूर्वोक्तप्रकाराणां वस्त्राणां रजोहरणानां च निर्ग्रन्थोभ्यो दानविधिः दानविषयो विधिः ज्ञातव्यः ॥१॥ ततः गणचिन्ताकारकः गणव्यवस्थाकारको गणधरः वस्त्ररजोहरणानि निर्ग्रन्थीप्रायोग्याणि प्रदातुं यथाकल्पं वितरीतुं तासां निग्रन्थीनां वसतिं गच्छति, तस्य साध्वीवसतिगमनशीलस्य साधोः विधिः-तत्र गमनागमनस्थानादिरूपः निपेघविधानात्मकः साधुकल्प इह अस्मिन् वक्ष्यमाणे तृतीयोदेशकस्यादिसूत्रे कथ्यते प्रतिपाद्यते । अत्रास्मिन् प्रकरणे पूर्वापरसूत्रयोः एष एव सम्बन्धोऽस्तीति ॥२॥ इत्यनेन सम्बन्धेनायातस्यास्य तृतीयोद्देशकस्येदं निर्ग्रन्थ्युपाश्रयगमनस्थानादिप्रतिपादकमादिसूत्रम्-'नो कप्पइ निग्गंथाणं' इत्यादि । सूत्रम्-नो कप्पइ निग्गंथाणं, निग्गंधीण उवस्सयंसि चिहित्तए वा निसीइत्तए वा तुयट्टित्तए वा निदाइत्तए वा पयलाइत्तए वा असणं वा पाणं वा खाइमं वा साइमं वा आहारं आहरितए, उच्चारं वा पासवणं वा खेलं वा सिघाणं वा परिदृवित्तए सज्झायं वा करित्तए, झाणं वा झाइत्तए, काउस्सग्गं वा करित्तए, ठाणं वा ठाइत्तए । सू०१॥ छाया-नो कल्पते निर्ग्रन्थानां, निर्ग्रन्थीनामुपाश्रये स्थातुं वा निपत्तं वा त्वग्वतयितुं वा निद्रायितुं वा प्रचलायितुं वा, अशनं वा पानं वा खाद्यं वा स्वाधवा आहारमाहर्तुम्, उच्चारं वा प्रनवणं वा खेलं वा सिवाणं वा परिष्ठापयितुम्, स्वध्याय वा कर्तुम्, ध्यानं वा ध्यातुम्, कायोत्सर्ग वा कर्तुम् , स्थानं वा स्थातुम् ॥ सू०१॥ चूर्णी--'नो कप्पइ निग्गंथाणं' इति । निर्ग्रन्थीनामुपाश्रये वस्त्रदानादिकार्यवशात्तत्र गतानां निर्ग्रन्थानाम् अग्रेऽनुपदं वक्ष्यमाणानि स्थानादीनि कत्तुं न कल्पते । तान्येव दर्शयति-निर्ग्रन्थी
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy