________________
चूर्णिभाष्यावधुरी उ०-२ सू० २५-२६
वस्त्ररजोहरणग्रहणविधिः ५३ अथ शय्यातरपिण्डविषयान् संगृह्याह भाष्यकारः-'अनीहडं' इत्यादि । भाष्यम्-अनीहडं नीहडं चा, आहडिया तहेव य । नोहडिया अंसिया वा, पूयाभत्तं चउव्विहं ॥२॥ सागारियस्स संबंधो, जत्थ जारिसतारिसो । साहूणं कप्पर नो तं, कप्पे संबंधवज्जियं ॥३॥ छाया-अनिहतं निहत वा, आहतिका तथैव च । निर्हतिका अंशिका वा, पूज्यभक्तं चतुर्विधम् ॥ २ ॥ सागारिकस्य संवन्धो, यत्र यादृशतादृश ।
साधूनां कल्पते नो तत्, कल्पेत सम्बन्धवर्जितम् ॥ ३ ॥ __ अवचूरी-'अनीहडं' इति । अनि तम् यद् अन्यस्तै वितरणाय अन्यदीयगृहे न नीत
शय्यातरगृह एव स्थितं तत् १, निहतं यत् शय्यातरगृहादन्यदीयगृहे प्राप्तम् २, आहृतिका-अन्यस्माद गृहात् शय्यातरगृहे समागता 'परोसा' इतिलोकप्रसिद्धा प्राभृतिकारूपा ३, निर्दृतिका-शय्यातरगृहादन्यदीयगृहे प्रेपिता प्राभतिका ४, अंशिका शय्यातरसहितद्वित्रिचतु पञ्चजनानां विभागैः संमिश्रा ५, चतुर्विधं पूज्यभक्तम् , तत्र प्रथमं कलाचार्यादिपूज्यजनमुदिश्य सपादितं प्रातिहारिकत्वेन तस्मै प्रदत्तं सागारिकेण दीयमानम् १, द्वितीय-पूर्वोक्तप्रकारमशनादि सागारिकरय पूज्येन दीयमानम् २, तृतीयं तादृशमशनादि अप्रातिहारिकत्वेन पूज्याय प्रदत्तं किन्तु तत् सागारिकेण दीयमानम् ३, एतत्त्रयमप्यकरप्यम् । चथुथे तादृशमशनादि अप्रातिहारिकत्वेन पूज्याय प्रदत्तं सागारिकं वर्जयित्वा पूज्यहस्तेन दीयमानम् ४, एतत्कल्प्यम् । एषु नवविधेषु अशनादिषु मध्ये यत्र यस्मिन् कस्मिंश्चिदशनादौ सागारिकस्य यादृशतादृशो यः कोऽपि सम्बन्धः स्वत्वविषयो हस्तदानविषयो विभागविषयो वा एतादृशोऽन्यो वा कोऽपि सम्बन्धो भवेत् तदशनादि साधूनां नो.. कल्पते, किन्तु यत् सम्बन्धवर्जितं-स्वत्वसम्बन्धहस्तदानसम्बन्धविभागसम्बन्धवर्जितं भवेत् तत् साधूनां कल्पेत ॥ २-३॥
पूर्वमाहारसूत्रं प्रोक्तम् , आहारानन्तरं वस्त्रप्रसङ्ग इति वस्त्रग्रहणसूत्रमाइ-'कप्पइ. पंच वत्थाई' इत्यादि ।
सूत्रम्-कप्पइ निग्गंधाण वा निग्गंथीण वा इमाइं पंच वत्थाइंधारित्तए वा परिहरित्तए वा तं जहा-जंगिए भंगिए साणए पोत्तए तिरीडपट्टे नामं पंचमे ॥ सू० २५ ॥
छाया-कल्पते निर्ग्रन्थानां वा निम्रन्थीनां वा इमानि पञ्च वस्त्राणि धारयितुं वा परिहत वा, तद्यथा-जाङ्गमिकम् , भाङ्गिकम् , शाणकम् पोतकम् तिरीटपट्टकं नाम पञ्चमम् ॥ सू० २५ ॥
. चूर्णी-'कप्पई' इति । निर्ग्रन्थानां वा निम्रन्थीनां वा इमानि वक्ष्यमाणानि पञ्च पञ्च. प्रकारकाणि वस्त्राणि धारयितुं वा स्वनिश्रायां स्थापयितुं, तथा परिहर्तुं वा उपभोक्तुं कल्पते, तान्येव