SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ वृहत्कल्पसूत्र दद्यात् तथापि तदशनादि 'से' तस्य साधोः प्रतिग्रहीतुं न कल्पते, तदशनादेः सागारिकस्त्रत्ववत्त्वात् ॥ सू० २२ ॥ साम्प्रतं पूज्यभक्तविषयकं तृतीयं सूत्रमाह-'सागारियस्स' इत्यादि । सूत्रम्-सागारियस्स पूयाभत्ते उदेसिए चेइए पाहुडियाए सागारियस्स उवगरणजाए निहिए निसिढे अपाडिहारिए तं सागारिओ देइ सागारियपरिजणो वा देइ तम्हा दावए नो से कप्पइ पडिगाहित्तए ॥ सू० २३ ॥ छाया-सागारिकस्य पूज्यभक्तम् औद्देशिकम् चेतितं प्राभृतिकायाम् सागारिकस्योपकरणजाते निष्ठितं निसृष्टम् अप्रातिहारिकम् तत् सागारिको ददाति सागारिकपरिजनो वा ददाति तस्मात् दद्यात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० २३ ॥ . चूर्णी-'सागारियम्स' इति । एतदपि सूत्र पूर्ववदेव व्याख्येयम् , नवरं विशेषत्वयम्यत् पूर्वमूत्रद्वये पूज्यभक्तं 'प्रातिहारिकम्' इति भुक्तोद्वरितस्य पुनर्ग्रहणयोग्यम्-इति कथितम्, अस्मिन् सूत्रे अप्रातिहारिकं 'भुक्तोद्दरिन पुनरस्मभ्यं प्रत्यर्पणीय' मितिप्रतिज्ञावार्जितं भवता सर्वं तत्रैव स्थाप्यं नास्मभ्यं दातव्यम् वयं नो प्रतिग्रहोण्यामः' इत्येवं प्रतिज्ञया प्रदत्तं भवेत् तथापि सागारिकेण सागारिकपरिजनेन वा दीयमानं तदशनादि साधोर्न कल्पते तस्य सागारिकतत्परिजनहस्तस्पर्शदोषसद्भावात् , तदाहारे प्रकृतिभद्रकसागारिकेण निर्दोषवस्तुनि भक्तिवशात् स्वकीयाऽन्यवस्तुप्रक्षेपणसंभवाच्चेति ॥ सू० २३ ॥ अथ पूज्यभक्तविषये तदाहारग्रहणप्रकारप्रतिपादकं चतुर्थ सूत्रमाह-'सागारियस' इत्यादि । सूत्र-सागारियस्स पूयाभत्ते उदेसिए चेइए पाहुडियाए सागारियस्स उबगरणजाए निहिए निसिट्ठे अपडिहारिए तं नो सागारिओ देइ नो सागरियस्स परिजणो वा देइ सागारियस्स पूया देइ तम्हा दावए एवं से कप्पइ पडिग्गाहित्तए ॥ सू० २४॥ छाया-सागारिकस्य पूज्यभक्तम् औद्देशिकं चेतितं प्राभृतिकायाम्, सागारिकस्य उपकरणजाते निष्ठितं निसृष्टम् अप्रातिहारिकं तद् नो सागारिको ददाति नो सागारिकस्य परिजनो वा ददाति, सागारिकस्य पूज्यो ददाति तस्मात् दद्यात् एवं तस्य कल्पते . प्रतिग्रहीतुम् ।। सू० २४ ।। चूर्णी-'सागारियस्स' इति । सागारिकस्य पूज्यभक्तं पूर्वप्रदर्शितप्रकारकं तत् अप्रातिहारिकं पुन प्रत्यर्पणप्रतिज्ञारहितं भवेत् तत्पुनः नो सागारिको ददाति नो वा सागारिकपरिजनो ददाति किन्तु तदाहारजातम् अप्रातिहारिकत्वेन गृहीतं शय्यातरस्त्र-वविनिर्मुक्तं सागारिकस्य पूज्यः स्वहस्तेन ददाति तस्मात् तादृशादाहारजातमध्यात् दद्यात् एवं सति तस्य भिक्षार्थमुपागतस्य साधोः प्रतिग्रहीतुम् उपादातुं कल्पते, अस्याऽप्रानिहारिकत्वेन शय्यातरस्वत्वराहित्यात्, शय्यातरस्य तत्परि- . जनस्य च हस्तस्पर्शवर्जितत्वाच्च ॥ सू० २४ ॥
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy