________________
चूर्णिभाष्यावचूरी उ०-२ सू० २१-२४ शय्यातरपिण्डग्रहणाऽग्रहणविधिः ५१
पूर्वसूत्रे शय्यातरस्यांशिकायुक्तांशिकारहिताशनादेब्रहणाग्रहणविधिः, प्रदर्शितः, सांप्रतं सागारिकस्य कलाचार्यादिपूज्यजनोद्देशेन तदानार्थं निष्पादितभक्तस्य ग्रहणनिषेधं ग्रहणविधिं च प्रदर्शयितुकामः सूत्रकारस्तद्विषये सूत्रचतुष्टयीमाह,तत्र प्रथमं निषेधसूत्रमाह-'सागारियस्स पूयाभत्ते' इत्यादि।
सूत्रम्-सागारियस्स पूयाभत्ते उदेसिए चेइए पाहुडियाए, सागारियस्स उवगरणजाए निहिए निसिहे पाडिहारिए, तं सागारिओ देज्जा सागारियस्स परिजणो वा देज्जा तम्हा दावए नो से कप्पइ पडिग्गाहित्तए ॥ सू० २१॥
छाया - सागारिकस्य पूज्यभक्तम् औद्देशिकं चेतितं प्राभृतिकायाम् सागारिकस्य उपकरणजाते निष्ठितं निसृष्टं प्रातिहारिकं, तत् सागारिको दद्यात् सागारिकस्य परिजनो वा दद्यात् तस्मात् दद्यात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० २१ ॥
चूणी-'सागारियस्स' इति । सागारिकस्य पूज्यभक्तम्-पूज्यानां कलाचार्यादिसंमान्यपुरुपाणां पूज्यत्वेन मान्यानां प्राघुणकानां च कृते निष्पादितं भक्तम् ओदनादिकं पूज्यभक्तं कथ्यते, तच्च औदेशिकम् कमप्युद्दिश्य निष्पादितम् औदेशिकं, भण्यते अत्र कलाचार्यप्राघुणकादिपूज्यजनानामुद्देशेन संपादितमशनादिकमौदेशिकशब्देन गृह्यते, तद् औद्देशिकमशनादि प्राभृतिकायाम् उपायन(मेट,रूपायां चेतितम्-उपढौकितं तेभ्य उपनीतं समर्पितमित्यर्थः, कीदृशं तत् पूज्यभक्तमित्याह-'सागारियस्स' इत्यादि, तत् पूज्यभक्तं सागारिकस्य उपकरणजाते स्थाल्यादिपाकपात्रे निष्ठितं निष्पादित, निसृष्टं तत्पात्रान्निष्कासितं, तथा तत् प्रातिहारिकं पुनः प्रत्यर्पणप्रतिज्ञया गृह्यमाणं प्रातिहारिक भवति यथा-'भुक्तोद्वरित पुनरस्मभ्यं प्रत्यर्पणीयम्' इति प्रतिज्ञायुक्तम् , तदशनादि सागारिको वा सागारिकपरिजनकुटुम्बजनो वा दद्यात् तस्माद् तादृशाद् अशनादेमध्यात् साधवे भिक्षार्थमुपस्थिताय दद्यात् तदा तदशनादि-"से' तस्य भिक्षार्थमुपस्थितस्य साधोः प्रतिग्रहीतु स्वीकर्तुं नो कल्पते, तदशनादेः सर्वथा शय्यातरदोषदूषितत्वात् ।। सू० २१ ॥
अथ पूज्यभक्तविषयकं द्वितीयं सूत्रमाह-सागारियस्स पूयाभत्ते' इत्यादि ।
सूत्रम्-सागारियस्स पूयाभत्ते उदेसिए चेइए पाहुडियाए सागारियस्स उवगरणजाए निहिए निसिहे पाडिहारिए तं नो सागारिओ देज्जा नो सागारियस्स परिजणो वा देज्ना सागारियस्स पूया देज्जा तम्हा दावए नो से कप्पइ पडिग्गाहित्तए ॥ सू०२२॥
छाया--सागारिकस्य पूज्यभक्तम् औद्देशिकं चेतितं प्राभृतिकायाम् सागारिकस्य उपकरणजाए निष्ठितं निसृष्टं प्रातिहारिकं, तत् नो सागारिको दद्यात् नो सागारिकस्य परिजनो वा दद्यात्, (किन्तु) सागारिकस्य पूज्यो दद्यात् तस्मात् दद्यात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० २२॥
चूर्णी-'सागारियस्स' इति । एतत्सूत्रगतपदानां व्याख्या पूर्वसूत्रवदेव कर्तव्या, नवरम्अत्र तादृशमशनादि न सागारिको दद्यात् न वा सागारिकस्य परिजनो दद्यात् किन्तु पूज्यः स्वहस्तेन