________________
बृहत्कल्पसूत्रे भवेत् तस्याः तन्मध्यात् अशनादि शय्यातरेतरः तत्स्वीकर्ता स्वजनादिः दद्यात् तदा तदशनादि 'से' तस्य भिक्षार्थ तत्रोपस्थितस्य साधोः प्रतिग्रहीतुं कल्पते, तादृशाशनादेः शय्यातरस्वत्वविनिर्मुक्तवादिति ॥ सू० १९ ॥
पूर्व सागारिकस्य निर्हताया ग्रहणाग्रहणविधिः प्रोक्तः, साम्प्रतं सागारिकपिण्डांशमिश्रितस्याशनादेर्ग्रहणाग्रहणविधिमाह-'सागारियस्स अंसियाओ' इत्यादि ।
सूत्रम्-सागारियस्स असियाओ अविभत्ताओ अव्वोच्छिन्नाओ अयोगडाओ अणिज्जूढाओ तम्हा दावए नो से कप्पइ पडिग्गाहित्तए ॥ सागारियस्स अंसियाओ विभत्ताओ वोच्छिनाओ वोगडाओ णिज्जूढाओ तम्हा दावए एवं से कप्पइ पडिग्गाहित्तए ॥ सू० २० ॥
छाया--सागारिकस्य अंशिकाः अविभक्ता अव्यवच्छिन्ना अव्याकृता अनियूंढा ताभ्यः दद्यात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सागारिकस्य अंशिका विभक्ता व्यवच्छिन्ना व्याकृता, नियूँढा ताभ्यः दद्यात् एवं तस्य कल्पते प्रतिग्रहीतुम् ।। सू०२०॥
__ चूर्णी--'सागारियस्स' इति । अत्र अंशिकाः इति वहुवचनम् बहूनां मित्रस्वजनादीनाम् अंशा नानाभक्ष्यमया येषु अशनादिषु एकत्रिताः स्युस्ता अंशिका इत्युच्यन्ते बहुजनानामंशमिश्रिताशनादिरूपाः, तासु अंशिकासु यदि सागारिकस्य अंशिकाः अविभक्ताः विभागपृथक्करणरहिताः सागारिकस्य विभागो यासु विद्यते तादृश्य इत्यर्थः, अव्यवच्छिन्नाः व्यवच्छेदरहित्ताः संबद्धा इत्यर्थः, अन्याकृता व्याकरणरहिताः भागस्पष्टोकरणवर्जिताः 'अयं तवांशः, अयं ममांशः' इत्येवं सागारिकभागस्य नामनिर्देशपूर्वकमनिर्दिष्टाः, अनियंढाः अनिष्कासिताः कृतविभागा अपि तत्रैव स्थिताः सागारिकेण न नीताः, एतादृश्यः अंशिकाः यत्र गृहस्थगृहे स्युः 'तम्हा' ताभ्यो यदि शय्यातरादितरोऽपि जनः साधवे दद्यात् तदा नो नैव 'से' तस्य भिक्षार्थमुपस्थितस्य साधोः प्रतिग्रहीतुं कल्पते, सागारिकांशिकामिश्रितत्वात् । ग्रहणविधिमाह-यदि पूर्वोक्तस्वरूपाभ्योंऽशिकाभ्यः सागारिकस्य अंशिकाः विभक्ताः विभागेन पृथक्कृताः व्यवच्छिन्ना व्यवच्छेदसहिता असंवद्धा इत्यर्थः, व्याकृता नाम निर्देशपूर्वकं भागस्पष्टीकरणेन निर्दिष्टाः 'इमाः सागारिकस्यांशिकाः इमा न' इतिभागस्पष्टीकरणयुक्ता इत्यर्थः, निर्मूढाः निष्कासिताः कृतविभागत्वेन तत्रतोऽन्यत्र स्थापिताः 'तम्हा' ताम्यो यदि शय्यातरादितरः कोऽपि साधवे दद्यात्, एवं स्थिताः 'से तस्य भिक्षार्थमुपागतस्य साधोः प्रतिग्रहीतुं कल्पते, तत्र सागारिकांशिकाया विनिर्मुक्तत्वात् । अयं भावार्थः-यत्र वहुजनविभागयुक्तमशनादिकं भवेत् तत्रान्येषां विभागेभ्यः सागारिकस्य विभागः पूर्वोक्तप्रकारेण विभज्य पृथग न कृतो भवेत् तदशनादिकं सागारिकविभागस्य त्याज्यत्वेन साधोर्न कल्पते, अन्यथा अन्येषां विभागेम्यः सागारिकस्य विभागः पूर्वोक्तविधिना तत्रतः पृथक्कृतो भवेत् तदा तदशनादिकं सागारिकविभागरहितत्वेन साधोः कल्पते इति ॥ सू० २०॥