________________
घुर्णिभाष्यावचूरी उ०-२ सू० १७-२० शय्तातरपिण्डग्रहणाऽग्रहणविधिः ४९
छाया-सागारिकस्य आहृतिका सागारिकेण प्रतिगृहीता, तस्याः दद्यात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥सू० १७॥ सागारिकस्य आहृतिका सागारिकेण अप्रतिगृहीता तस्याः दद्यात् एवं तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० १८॥
चूर्णी-'सागारियस्स' इति । सागारिकत्य-शय्यातरस्य आहृतिका आहियते-- दातुमानीयते या सा आहृतिका अन्यगृहादागता प्रहेणकरूपा उपायनप्राभृतादिपदवाच्या 'परोसा' इति भाषाप्रसिद्धा, या अन्यस्मात् स्वजनादिगृहात् समर्पयितुं शय्यातरगृहे समागता भवेत् सा यदि सागारिकेण प्रतिगृहीता-स्वीकृता तस्याः तद्गताशनादिमव्यात् अशनादिकं साधवे दद्यात् शय्यातरोऽन्यो वा कोऽपि तदशनादिकं तदा 'से' तस्य भिक्षार्थमागतस्य साधोः प्रतिग्रहीतु नो कल्पते, तस्मिन् संजातशय्यातरस्वत्वत्वात् ।।सू०१७॥ अथ तद्वैपरीत्ये कल्पते इति तद्विधि प्रदर्शयति'सागारियस्स आहडिया' इत्यादि । सागारिकस्य गृहे समानीता आहृतिका यदि तेन सागारिकेण अप्रतिगृहीता-अस्वीकृता भवेत् तदा तस्याः-तद्गताशनादितोऽन्यः शय्यातरादितर आहृतिकावाहकोऽन्यो वा दद्यात् ‘एवं' अनेन विधिना दीयमानमशनादि 'से' तस्य भिक्षार्थ समुपस्थितस्य साधोः प्रतिग्रहीतुं कल्पते, तस्मिन् असजातशय्यातरस्वत्वत्वादिति ॥ सू० १८ ।।
पूर्व सागारिकगृहागगताऽऽद्वतिकाया अशनादेर्ग्रहणाग्रहणविधिः प्रोक्तः, साम्प्रतं सागारिकगृहादन्यत्रगतनिर्दृतिकाया अशनादेर्ग्रहणाग्रहणविधिमाह-'सागारियस्स नीहडिया' इत्यादि ।
सूत्रम्-सागारियस्स नीहडिया परेण अपडिग्गहिया तम्हा दावए नो से कप्पइ पडिग्गाहित्तए । सागारियस्स नीहडिया परेण पडिग्गहिया तम्हा दावए एवं से कप्पइ पडिग्गाहित्तए ॥ सू० १९॥
छाया-सागारिकस्य निर्दृतिका परेण अपरिगृहीता तस्याः दद्यात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सागारिकस्य निर्हतिका परेण परिगृहीता तस्या. दयात् ण्वं तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० १९॥
चूर्णी-'सागारियरस' इति । सागारिकस्य शय्यातरस्य निर्वृतिका निर्हियते-दातुमन्यत्र नोयते सा निर्हतिका सागारिकगृहाद् अन्यस्मै स्वजनादिकाय दातुं वहिनीता ग्वजनादिगृहे प्राप्ता तत्र परेण तेन स्वजनादिना अपरिगृहीता-अस्वीकृता शय्यातरसत्कैव स्थिता तस्या तन्मध्यात् कोऽपि शय्यातरोऽन्योऽपि कश्चित् अशनादि तत्र तत्क्षणसमागताय साधवे दद्यात् तदशनादि 'से' तस्य सावो प्रतिग्रहीतुं नो कन्पते, तस्मिन् शय्यातरस्वत्वस्यानिमुक्तत्वात् । अथ तद्वैपरोत्ये ग्रहणविधिमाह-'सागारियस्स नीहाडिया' इत्यादि । सागारिकस्य निर्वृतिका सागारिकगृहाबहिनिर्गता स्वजनादिगृहे संप्राप्ता सा निर्दृतिका यदि परेण स्वजनादिना प्रतिगृहीता-स्वीकृता