________________
बृहत्कल्पस्त्रे छाया--- नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा सागारिकपिण्डं बहिनिहतं असंसष्टं प्रतिग्रहीतम् । कल्पते निर्ग्रन्थानां वा निग्रन्थीनां वा सागारिकपिण्डं बहिनिहृतं संसृष्टं प्रतिग्रहीतुम् ॥ सू० १५ ॥
___ चूर्णी-'नो कप्पइ' इति । शरय्यातपिण्डः शय्यातरगृहाद् वहिस्तु निर्हतः-निस्सृतः अन्यगृहे नीतो भवेत् किन्तु स तत्र अससृष्टः अन्यदीयपिण्डेन असंमिलितः अन्यागृहीतत्वेन अन्यदीयपिण्डत्वं न प्राप्त. शय्यातरस्वत्वसहित एव भवेत् , तं पिण्डं प्रतिग्रहीतुं निर्ग्रन्थनिर्ग्रन्थीनां नो कल्पते शय्यातरस्वत्वेन अनिर्मुक्तत्वात् । तर्हि कथं कल्पते ? इति कल्पविधिं दर्शयति-बहिनिहृतः यदि शय्यातरगृहादन्यगृहे नीत. सन् स शय्यातरपिण्डः ससृष्टः अन्यदीयपिण्डेन संमिलितः अन्यदीयपिण्डत्वं प्राप्तः शय्यातरस्वत्वविनिर्मुक्तो भवेत् तदा तं तादृशं शय्यातरपिण्ड प्रतिग्रहातं निग्रन्थनिर्ग्रन्थोनां कल्पते तस्य शय्यातरस्वत्वविनिर्मुक्तत्वात् ।। सू०१५॥
अथ शय्यातरगृहविनिर्गतासंसृष्टपिण्डस्य ससृष्टकरणे प्रायश्चित्तं प्रदर्शयति - 'जो खलु' इत्यादि ।
सूत्रम्--जो खलु निग्गंथो वा निग्गंथी वा सागारियपिंडं बहियानीहडं असंसर्ट संसर्ट करेइ, करेंतं वा साइज्जइ से दुहओ वीइक्कममाणे आवज्जइ चाउम्मासियं परिहारहाणं अणुग्याइयं ॥ सू० १६ ॥
छाया-यः खलु निर्ग्रन्थो वा निर्ग्रन्थी वा सागारिकपिण्डं वहिनिहतं असंसृष्टं संसृष्टं करोति, कुर्वन्तं वा स्वदते स द्विधातो व्यतिक्रामन् आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घातिकम् ॥ सू० १६ ॥
___ चूर्णी-'जो खलु' इति । यः खलु कोऽपि रसनलोलुपी निर्ग्रन्थो वा तथा तादृशी निर्ग्रन्थी वा यदि सागारिकपिण्डं वहिनितम्-अन्यगृहे संप्राप्तम् किन्तु असंसृष्टम् अन्याशनादिना न मिलितम् । यस्य गृहे स पिण्डो नीतस्तेनास्वीकृतः शय्यातरस्वत्वसहित एव तं ससृष्टं अन्यगृहस्थस्वत्वसहितं शय्यातरस्वत्वविनिमुक्तं स्वहस्तेन तत्रागतं शय्यातरपिण्डं गृहीत्वा तद्गृहे स्थापयति । तेनाऽगृह्यमाणमपि गृहीतमनेनेति करोति, एवं कुर्वन्तं वा स्वदते अनुमोदते स एतादृशो निर्ग्रन्थः निम्रन्थी वा द्विधातः-लौकिकलोकोत्तरेति द्विप्रकारत' लौकिकमर्यादां जिनशासनमर्यादां च व्यतिक्रामन् उल्लङ्घयन् आपद्यते प्राप्नोति चातुर्मासिकं चतुर्माससम्बन्धिकं परिहारस्थान प्रायश्चित्तस्थानम् अनुद्घातिकम् चतुरो गुरुमासान् प्रायश्चित्त प्राप्नोतीति भाव. ॥ सू०१६॥
पुनरपि सागारिकपिण्डविपये आवृतिकामध्याद्दीयमानाहारादेर्ग्रहणाग्रहणविधिमाह-'सागारियस्स आइडिया' इत्यादि,।
सूत्रम्-सागारियस्स आइडिया सागारिएण पडिगहिया तम्हा दावए नो से कप्पइ पडिगाहित्तए ।सू०१७॥ सागारियस्स आइडिया सागरिएण अप्पडिग्गहिया तम्हा दावए एवं से कप्पइ पडिग्गाहित्तए ॥ सू०१८ ॥