________________
वर्णभाष्यावरी उ०- २ सू० १३-१८
शय्यातरपिण्डग्रहणाग्रहणविधिः ४७
सूत्रम् - एगे सागारिए पारिहारिए, दो तिन्नि चत्तारि पंच सागारिया पारिहारिया, एवं तत्थ कप्पागं ठवित्ता अवसेसे निव्विसेञ्जा || सू०१३ ॥
छाया- - एकः सागारिकः पारिहारिकः द्वौ त्रयः चत्वारः पंच सागारिकाः, एकं तत्र कल्पकं कृत्वा शेषान् निर्विशेत् ॥ सू० १३ ॥
चूर्णी - 'एगे' इति । सागारिकः अगारेण गृहेण सहितः सागारः, स एव सागारिकः गृहस्वामी शय्यातर इत्यर्थः । शय्यातर इति कोऽर्थः ? शय्यां साधुभ्यो वसतिं दत्त्वा तरति संसारसागरं पारयति यः स शय्यातरः, अथवा शय्यायाः - वसतेर्दानेन भवपरंपरारूपं ससारप्रवाहं तरति योऽसौ शय्यातरः कथ्यते । अत्र शिष्यप्रश्नः - स एकः सागारिकः पारिहारिकः परिहारं परित्यागं अर्हतीति पारिहारिकः भिक्षादिग्रहणपरिहारयोग्यो भवति, तथैव द्वौ त्रयः चत्वारः पञ्च वाऽपि पारिहारिका भिक्षादिपरिहरणयोग्या भवन्ति किम् ? आचार्यस्तत्र विधिमाह -- य उपाश्रयो दायादभागमिश्रो भवेत्, अथवा बहुजनसाधारणं देवकुलादिकं वा भवेत्, एवं यस्य स्थानस्य द्वयादयः स्वामिनो भवेयुस्तत्र तेषु मध्ये एकं स्वामिनं कल्पकं शय्यातरकल्पयोग्यं शय्यातरत्वेन स्थापयित्वा तेष्वेकं शय्यातरं कृत्वा अवशेषान् अवशिष्टान् तदितरान् निव्त्रिसेज्जा-निर्विशेत् विसर्जयेत्, शय्यातरत्वेन न गणयेत् । अथवा अवशेषान् शेषाणां गृहेषु इत्यर्थः 'निवि०सेज्जा' निर्विशेत् प्रविशेत् महाराद्यर्थ तेषां गृहेषु अनुप्रविशेदिति भावः ॥ सू० १३ ॥ पूर्वसूत्रे एकः शय्यातरः कर्त्तव्यः इति प्रोक्तम्, साम्प्रतमत्रत आरभ्य शय्यातरपिण्डस्य निर्ग्रन्थनिर्ग्रन्थीसमुच्चयेन ग्रहणविषये विधिं प्रतिपादयितुमाह - 'नोकप्पइ० सागारियपिंडं' इत्यादि । सूत्रम् - - नो कप्पड निग्गंथाण वा निग्गंथीण वा सागारियपिंडं वहिया अनीहड़ असस वा संसद्धं वा पडिग्गाहित्तए || सू० १४ ॥
,
छाया - नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा सागारिकपिण्डं यहिः अनितं असंसृष्टं वा संसृष्टं वा प्रतिग्रहीतुम् ॥ सू० १४ ॥
1
चूर्णी - 'नो कप' इति । निर्ग्रन्थानां वा निर्ग्रन्थीनां वा द्वयानामपि सागारिकपिण्ड सागारिकस्य–यो गृहस्थ. शय्यातरत्वेन स्थापितस्तस्य पिण्डम् - अशनादिक, यः, पिण्डः बहिः शय्यातरगृहाद् बहि' अनि 'त' अनिस्सृत. अन्यगृहे न नीत. शय्यातरगृहे एव स्थितः सः असंसृष्टोवा शय्यातरेतरपिण्डेन अमिलितो वा, अथवा ससृष्टो वा मिलितो वा भवेत् तं तादृशं शय्यातरपिण्डं नो कल्पते प्रतिग्रहीतुम्, शय्यातर पिण्डग्रहणस्य शास्त्रे सर्वत्र निषिद्धत्वात् ॥ सू०१४ ॥
-
अथ शय्यातर पिण्डस्यान्यनिषेधविधिमाह - 'नो कप्पड़' इत्यादि ।
सूत्रम् - नो कप्पर निग्गंथाण वा निग्गंथीण वा सागारियपिंडं वहिया नीहडं असंस पडिगाहित्तए । कप्पड़ निग्गंथाण वा निग्गंथीण वा सागारियपिंडं वहिया नीडं संसद्वं पडिगाहित्तए ॥ सू० १५ ॥