SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ वृहत्कल्पसूत्रे विशेषेण प्रसृतानि, व्यतिकर्णानि सर्वत्र प्रस्तानि वा भवेयुस्तादृशे उपाश्रये निम्रन्थानां वा निग्रन्थीनां वा यथालन्दमपि-क्षणमात्रमपि, यथालन्दशब्दो देशीयोऽत्र क्षणमात्रवाचकः, यावता कालेन जलार्दा हस्तरेखा शुष्यति तावत्कालमपि तत्र वस्तुं नो कल्पते । तत्र वासे अप्रमत्तानामपि अकस्मात् सचित्तबीजसंघट्टनस्यावश्यम्भावात् ॥ सू० १॥ अथ तत्रापि ऋतुबद्धकालयोग्योपाश्रयविधिप्रतिपादकं द्वितीय सूत्रमाह-'अह पुण' इत्यादि । सूत्रम्-अह पुण एवं जाणिज्जा-(उचस्सयस्स अंतो वगडाए सालीणि १०) नो उक्खित्ताई नो विक्खित्ताई नो विइकिण्णाई नो विपकिण्णाइं (किन्तु) रासिकडाणि वा पुंजकडाणि वा भित्तिकडाणि वा कुलियाकडाणि वा लंछियाणि वा मुद्दियाणि वा पिहियाणि वा कप्पइ निग्गंथाण वा निग्गंथीण वा हेमंतगिम्हासु वत्थए ॥ सू०२॥ छाया- अथ पुनरेवं जानीयात्-(उपाश्रयस्य अन्तर्वगडायां शालयो वा०) नो उत्क्षिप्ताः, नो विक्षिप्ताः, नो व्यतिकीर्णा , नो विप्रकीर्णाः, (किन्तु) राशीकृता वा, पुञ्जीकृता वा, भित्तिकृता वा, कुलिकाकृता वा, लाञ्छिता वा, मुद्रिता वा, पिहिता वा, कल्पते निम्रन्थानां वा निर्ग्रन्थीनां वा हेमन्तग्रीष्मेपु वस्तुम् ॥ सू० २॥ .. ___ चूर्णी-'अह पुण' इति । तत्रार्यदेशे वस्तुमिच्छन्तो मुनयः अथ पुनरिति पूर्वसूत्रोक्तशाल्यादिबीजोत्क्षेपादिविपरीतमुपाश्रयं जानीयात्, अत्र पूर्वसूत्रोक्तपाठस्यानुवृतिः कर्त्तव्या, यथा उपाश्रयस्य वगडायां शालिबीजादीनि नो नैव उत्क्षिप्तानि विक्षिप्तानि व्यतिकीर्णानि किन्तु तानि तत्र वक्ष्यमाणप्रकारेण स्थितानि भवेयुः, यथा राशीकृतानि एकत्र राशिं कृत्वा स्थापितानि, पुजीकृतानि-दीर्घगोलाकारराशिं कृत्वा स्थापितानि, भित्तिकृतानि–भित्तौ कृतानिइष्टकादिरचितमित्तिनिश्रया स्थापितानि कुलिकाकृतानि मृत्पिण्डनिर्मितं कुड्याकारं स्थानं कुलिकोच्यते तत्रालीनानि कृत्वा स्थापितानि, लाञ्छितानि भस्मादिना चिन्हितानि, मुद्रितानि छगणमृत्तिकादिना अङ्कितानि आवृतानि, पिहितानि किलिञ्जकटादिना स्थाल्यादिना वा एवमेव स्थगयित्वा स्थापितानि भवेयुरत्रोपाश्रये तदा तत्र निर्ग्रन्थानां निर्ग्रन्थीनां हेमन्तग्रीष्मेषु ऋतुबद्वेषु. अष्टसु मासेपु मध्ये स्वस्वकल्प्यकाले वस्तुं कल्पते । एतादृशप्रकारेण स्थितेषु शाल्यादिवीजेषु तत्र वसतां मुनीनां सचित्तसंघटनादिप्रसङ्गाभावात् । तत्रापि चातुर्मासकाले न कल्पते, चातुर्मासे बीजानां गृहस्थकृतनिस्सारणपुनःस्थापनयोर्भूयो भूयः प्रसङ्गेन सचित्तसंघटनादेरवश्यम्भावात् ॥ सू० २.॥. अथ तत्रापि चातुर्मासयोग्योपाश्रयविधिप्रतिपादकं तृतीयं सुत्रमाह-'अह पुण' इत्यादि। सूत्रम्-अह पुण एवं जाणिज्जा (उवस्सयस्स अंतो वगडाए सालीणि वा०) नो रासिकडाई, नो पुंजकडाई, नो भित्तिकडाई, नो कुलियाकडाई, (किन्तु)कोहाउत्ताणि वा, पल्लाउत्ताणि वा, मंचाउत्ताणि वा, मालाउत्ताणि वा भोलित्ताणि वा लित्ताणि वा, पिहि
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy