SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ | अथ द्वितीयोदेशकः । अथास्य द्वितीयोद्देशकादिसूत्रस्य प्रथमोद्देशकस्यान्तिमसूत्रेण सह कः सम्बन्धः ? इत्यत्राह --- भाष्यकार : - 'पुचं ' इत्यादि । साहूण गमणपाउरगा । भाष्यम् - पुवं आरियविसया, तत्थ निवासविही इह, दरिसिज्जइ एस संबंधी ॥ १ ॥ छाया - पूर्वम् आर्यविषयाः, प्रोक्ताः साधूनां गमनप्रायोग्याः । तत्र निवासविधिरिह, दर्श्यते एव सम्बन्धः ||१|| अवचूरी - 'पुत्र' इति । पूर्वम् - प्रथमोदेशकस्यान्तिमसूत्रे आर्यविषयाः आर्यदेशाः साधूनां गमनप्रायोग्याः विहरणयोग्याः प्रोक्ताः, तत्र आर्यदेशेषु विहरतां मुनीनां कीदृशे उपाश्रये वस्तव्यम् ? इति उपाश्रयनिवासविधिः इह - अस्य द्वितीयोदेशकस्य प्रथमे सूत्रे दर्श्यते । एष पूर्वोदेशकान्तिमसूत्रेण सह अस्यादिसूत्रस्य सम्बन्धो वर्त्तते ॥१॥ इत्यनेन सम्बन्धेनायातेऽस्मिन् द्वितीयोदेशके निर्मन्थनिर्ग्रन्थीभिः कीदृशे उपाश्रये वस्तव्यमिति प्रदर्शयितुकामः सूत्रकारोऽस्मिन् विषये त्रीणि सूत्राणि वक्ष्यति, तत्र प्रथमं सचित्तप्रतिबद्धोपाश्रयवासप्रतिषेघसूत्रम् १, द्वितीयम् - ऋतुबद्धकालयोग्योपाश्रयवासविधिप्रतिपादकं सूत्रम् २, तृतीयं चातुर्मासयोग्योपाश्रयविधिप्रतिपादकं सूत्रम् ३ चेति त्रीणि सूत्राणि, तत्र प्रथमं सचित्तबीजप्रतिबद्धोपाश्रयनिवासनिपेधसूत्रमाह - 'उवस्सयस्स' इत्यादि । सूत्रम् — उवस्सस्स अंतो वगडाए सालीणि वा वीहीणि वा मुग्गाणि वा मासाणि वा तिलाणि वा कुलत्थाणि वा गोहमाणि वा जवाणि वा जवजवाणि वा उक्खिताणि वा विक्खित्ताणि वा विइकिष्णाणि वा विप्प किष्णाणि वा नो कप्पइ निमांथाण वा निग्गंथीण वा अहालंदमवि वत्थए || सू० १ ॥ छाया ➖➖➖ - उपाश्रयस्य अन्तर्वगडायां शालयो वा ब्रोहयो वा मुद्रा वा भाषा घा तिला वा कुलत्था वा गोधूमा वा यवा वा, यवयवा वा उत्क्षिप्ता वा विक्षिप्ता वा व्यतिकीर्णा या विप्रकीर्णा वा नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा यथालन्दमपि वस्तुम् ॥ सु०१ ॥ चूर्णी - ' उवस्सयस्स' इति । पूर्वोक्तेषु आर्यक्षेत्रेषु विहरतां श्रमणानां ऋतुबद्धकाले चातुर्मासे वा यत्र उपाश्रये स्थितिः कर्त्तव्या भवेत् तस्य उपाश्रयस्य वगडायां 'वगडा' इति देशी शब्दः प्राङ्गणवाचकस्तेन वगडायामिति उपाश्रयस्य प्राङ्गणे शालयः शालिवीजानि, ब्रीहयः ता एव शालिविशेषाः, मुद्गाः प्रसिद्धाः, माषाः 'उडद' इति प्रसिद्धाः, तिलाः कुलत्थाः 'कुलथी' इति प्रसिद्धो धान्यविशेषस्तस्या बोजानि, गोधूमाः, यवाः, यवयवाः 'ज्वारी' इति प्रसिद्धाः, यवजातीयबीजानि वा, एतानि धान्यबीजानि यदि उपाश्रयप्राङ्गणे उत्क्षिप्तानि सामान्येन प्रसृतानि, विक्षिप्तानि
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy