________________
बृहत्कल्पस्त्रे
तमुपसर्गयति, 'कोऽत्र मां पश्यती' ति कृत्वा एकाकिनो मनो वा भिद्यते, इत्यादिना संयमविराधना । रात्रौ बहिर्गतमेकाकिनं साधुं दृष्ट्वा तस्करास्तदुपधिमपहरेयुः, प्रामारक्षका वा एकाकिनं रात्री दृष्ट्वा चौरोऽयमिति बुद्धया ग्रहणाकर्षणादिकं वा कुर्युः, श्वापदादिभिर्वा हन्येत, श्रामण्यसीदितः पलायनप्रतीक्षक एकाकित्वेन पलायेत, रात्री बहिः कायिकी प्रतिष्ठापयन् वायुप्रकोपेन मूर्छितः सन् भूमौ प्रपतेत् म्रियेत वा, इत्यादिप्रकारेण आत्मविराधना भवति तस्मात् नैकाकिना श्रमणेन रात्रौ बहिर्भूमौ गन्तव्यम् , अपितु एकेन द्वाभ्यां वा सह कायिक्याद्यर्थ रात्रौ बहिर्गन्तव्यं, तेन पूर्वोक्तपरिस्थितौ तस्य साहाय्यं भवेदिति भावः ॥ सू० ४७ ॥
पूर्व निग्रन्थस्य रात्रौ वहिर्गमनविधिः प्रतिपादितः, साम्प्रतं तमेव विधि निर्ग्रन्थ्यर्थं प्रतिपादयितुमाह-'नो कप्पइ० एगाणियाए' इत्यादि ।
सूत्रम्-नो कप्पइ निरगंथीए एगाणियाए राओ वा वियाले वा वहिया वियारभूमि वा विहारभूमि वा निक्खमित्तए वा पविसित्तए वा । कप्पइ से अप्पविइयाए वा अप्पतइयाए वा अप्पचउत्थीए वा राओ चा वियाले वा पहिया वियारभूमि वा विहारभूमि वा निक्खमित्तए वा पविसित्तए वा ॥ सू० ४८ ॥
छाया-नो कल्पते निर्मथ्या एकाकिन्या रात्री वा विकाले वा बहिर्विचारभूमि वा विहारभूमि वा निष्क्रमितुं वा प्रवेष्टुं वा कल्पते तस्या आत्मद्वितीयाया वा आत्मतृतीयाया वा आत्मचतुर्थ्या वा रात्रौ पा विकाले वा बहिर्विचारभूमि वा विहारभूमि वा निष्क्रमितुं वा प्रवेष्टुं वा ॥९० ४८ ॥ -
चूर्णी-'नो कप्पई' इति । इदं सूत्रं निम्रन्थसूत्रवदेव व्याख्येयम् , नवरं निर्ग्रन्थसूत्रे निम्रन्थस्य आत्मद्वितीयस्य आत्मतृतीयस्य रात्रौ वहिर्गमनं कल्पते इति प्रोक्तम् , अत्र तु निम्रन्थीसूत्रे आत्मचतुर्थ्या वा रात्रौ बहिर्गतुं कल्पते, इति प्रोक्तम् , एतावानेव विशेषः शेषं पूर्वसूत्रवदेवेति । निर्ग्रन्थ्या रात्रौ एकाकिन्या बहिर्गमनेऽनेके दोषाः संयमात्मविराधनादिकाः संभवेयुः, तथाहि-एकाकिनी बहिर्गतां दृष्ट्वा लम्पटः कोऽपि पुरुष उपसर्गयेत् , तत्प्रार्थनायां स्वमनो वा भिद्यते 'कोऽत्र मां पश्यती' ति कृत्वा तमनुमोदते, इत्यादिरूपेण संयमविराधना । आत्मविराधना प्रायः पूर्वोक्तैव रात्रौ गर्जादौ प्रपतेत् , मूर्छिता वा भवेत् , इत्यादिकाऽऽत्मविराधना भवति, अतो निम्रन्थ्या एकया द्वाभ्यां तिसृभिश्च सहितया रात्रौ बहिर्गन्तव्यम्, किन्तु नैकाकिन्या रात्रौ वहिर्गन्तव्यम् , एकाकिन्या रात्रौ वहिर्गमने आज्ञाभङ्गानवस्थामिथ्यात्वादयोऽनेके दोषाः समापयेरन्निति ॥ सू०४८ ॥