________________
घृणिभाष्यावेचूरी उ० १ सू० ४७-४८ रात्रौ विकाले वा वहिर्गमनविधि : ३५ कर्तव्यम् ॥ सू० ४५ ॥ निर्ग्रन्थनिर्ग्रन्थ्यो रात्रौ गमनं संखड्यामाहाराद्यर्थं वा कदाचित् कुर्वन्तीति तन्निषेधमप्याह-'नो कप्पई' इत्यादि । नो कल्पते निग्रन्थानां वा निर्ग्रन्थीनां वा संखडिं वा, संखण्ड्यन्ते त्रोट्यन्ते षट्कायजीवानामायूंषि यत्र सा संखडिः अग्न्यारम्भे षट्कायानामुपमर्दनसद्भावात् , विवाहमरणादिनिमित्तं क्रियमाणं बहुजनभोज्यं संखडिरुच्यते, तामपि संखडिप्रतिज्ञया संखडिवाञ्छया तन्निमित्तम् अध्वगमनम्, एतुं कर्तुं न कल्पते ॥ ४६ ।।
पूर्वसूत्रे रात्रौ विकाले वा ऽध्वगमनस्य संखडिगमनस्य च निषेधः प्रतिपादितः, साम्प्रतं गमनप्रकरणाद् निर्ग्रन्थस्य एकाकिनः संज्ञादिभूमौ गमनविधिमाह-'नो कप्पइ०' इत्यादि ।
सूत्रम्--नो कप्पइ निग्गंथस्स एगाणियस्स राओ वा वियाले वा वहिया वियारभूमि वा, विहारभूमि वा निक्खमित्तए वा पविसित्तए वा । कप्पइ से अप्पविइयस्स वा अप्पतइयस्स व, राओ वा, वियाले वा वहिया वियारभूमि वा, विहारभूमि वा निक्खेंमित्तए वा पविसित्तए वा । सू० ४७॥
छाया-नो कल्पते निर्ग्रन्थस्य एकाकिनः रात्रौ वा विकाले वा वहिविचारभूमि या विहारभूमि वा निष्क्रमितुं वा प्रवेष्टुं वा, कल्पते तस्य आत्मद्वितीयस्य वा आत्मतृतीयस्य वो रात्रौ वा विकाले वा बहिर्विचारभूमि वा विहारमूर्मि वा निष्क्रमितुं वी प्रवेष्टुं वा ॥ सू• ४७ ॥
चूर्णी-'नो कप्पई' इति । निर्ग्रन्थस्य साधोः एकाकिन:-अद्वितीयस्य रात्री वा विकाले वो बहिः उपाश्रयाद् बहिःप्रदेशे विचारभूमि वा-सञ्ज्ञाभूमि कायिक्यादिपरिष्ठापनभूमिम् , विहारभूमि वा स्वाध्यायमूमिम् उद्दिश्य निष्क्रमितुं-निस्सतुं प्रवेष्टुं बहिर्भागतोऽन्तरागन्तुं गमनागमनं कर्तुमित्यर्थः नो कल्पते । तहिं कथं कल्पते ? इत्याह-कल्पते 'से' तस्य निर्ग्रन्थस्य आत्मद्वितीयस्य आत्मा स्वयं द्वितीयो यस्य सः एकः अन्यः साधुः स्वयं द्वितीयो भवेत् स भात्मद्वितीयो भवेत् स आत्मद्वितीयः, तस्य वा, अथवा आत्मतृतीयस्य द्वौ अन्यौ श्रमणौ स्वयं च तृतीयो भवेत् स आत्मतृतीयः, तस्य एकेन श्रमणेन द्वाभ्यां वा श्रमणाभ्यां सहितस्य रात्रौ वा विकाले वा बहिः उपाश्रयाद् बहिःप्रदेशे विचारभूमि वा विहारभूमि वा निष्क्रमितुं प्रवेण्टुं गमनागमनं कर्तुं कल्पते । रात्रौ विकाले च एकाकिना श्रमणेन उपाश्रयाद्वहिर्न गन्तव्यमिति भावः । रात्री एकाकित्वेन गमनशीलस्य साघोः संयमविराधना आत्मविराधना च भवति, तथाहि-संयमविराधना यथा-बहिर्गतम् एकाकिन साधुं दृष्ट्वा रूपमुग्धा काचित् कुलटा स्त्री तदनिच्छयापि