SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्पसूत्रे चूर्णी - 'नो कप्पइ' इति । निर्ग्रन्धानां निर्ग्रन्थीनां रात्रौ विकाले वा वस्त्रंवा चोलपट्टशाटिकादिकम्, प्रतिग्रहं - पात्रम्, कम्बलम् - ऊर्णामयं प्रावरणवस्त्रम्, पादप्रोञ्छनं - रजोहरणम् अथवा पात्रप्रोच्छनम् - आहारादिपात्राणां प्रोञ्छनवस्त्रम् एतत्सर्वं वस्तुजातं प्रतिग्रहीतुं न कल्पते । तर्हि किं कल्पते ? इत्याह-एकया केवलया हताहतया - हृतं पूर्वे चौरादिना चोरितं पश्चात् शुभपरिणामादिवशात् गृहस्थभयवशाद्दा आहता - आनीय पुनर्दत्ता, एतादृशी काऽपि वस्त्रजातिः, तया अन्यत्र - विना तां त्यक्त्वेत्यर्थः न कल्पते, सा तु कल्पते इति भावः साऽपि च या आनीय दत्ता सा यदि परिभुक्का हरणकर्त्रा स्वपरिभोगे नीता शरीरे धृता भवेत्, धौता वा जलेन प्रक्षालिता वा भवेत्, रञ्जिता वा रक्तपीतादिरागेण रङ्गयुक्ता वा कृता भवेत्, घृष्टा वा चिक्कणप्रस्तरादिना चिक्कणीकृता वा, सृष्टा वा प्रक्षिता सुकोमलीकृता वा भवेत्, संप्रघूमिता, संप्रधूपिता वा अगुरुचन्दनादि सुगन्धद्रव्यधूमेन धूमयुक्ता कृता, सुगन्धद्रव्यधूपेन धूपिता वा भवेत् तथापि सा वस्ननातिर्निर्ग्रन्थैर्निर्ग्रन्थीभिः रात्रौ विकाले वाऽपि सा दीयमाना ग्रहीतव्या, तस्याः स्वनिश्रागतत्वादिति ॥ सू० ४४ ॥ ३४ 1 पूर्वं रात्रौ विकाले वा वस्त्रग्रहणविधिरुक्तः, साम्प्रतमध्वगमनस्य सखडिगमनस्य च निषेधमाह - 'नो कप्पइ० अद्धाण०' इत्यादि । सूत्रम् -- 'नो कप्पइ निगंथाण वा, निग्गंथीण वा राओ वा, वियाले वा, अद्धाणगमणं एत्तए || सू०४५ || नो कप्पइ निग्र्गयाण वा निग्गंथीण वा संखार्ड वा संखडिपडियाए अद्धाणगमणं एत्तए || सू०४६॥ छाया - नो कल्पते निर्ग्रन्थानां वा निग्रन्थीनां वा रात्रौ वा विकाले वा अभ्वगमनम् एतुम् ॥ सू० ४५ ॥ नो कल्पते निर्ग्रन्थानां वा निग्रन्थीनां वा संखार्ड वा संखडिप्रतिज्ञया अध्वगमनम् एतुम् ॥ सु० ४६ ॥ चूर्णी - 'नो कप' इति । निर्ग्रन्थानां निर्ग्रन्थीनां च रात्रौ विकाले वा सन्ध्याकाले अध्वगमनं मार्गगमनम् एतुं कर्त्तुं नो कल्पते, रात्रौ विकाले वा गमनशीलस्य प्रथमम् चक्षुरगोचरतया ईर्यासमितिरेव विराधिता भवति, तस्यां विराधितायां संयमोऽपि विराधितो भवेत् तेन तीर्थकराज्ञाऽतिक्रान्ता भवतीति संयमविराधना भवति, एवमात्मविराधना तु प्रत्यक्षैव यथारात्रौ विकाले वा गमनशीलस्य साघोरन्धकारसद्भावाद् गर्त्तादौ पतनं भवेत् पादयोः कण्टकवेधः स्यान्, चौरलुण्टाकादिना वस्त्राद्यपहरणं भवेत्, श्वापदादिहिंस्रजन्तुकृतस्त्रासः समुत्पयेत, समारयेद्वा कुलटाजारादिकृतोपद्रवोऽपि सभवेत् तस्माद् निर्ग्रन्थनिर्ग्रन्थीभिः रात्रौ विकाले वाऽध्वगमनं न
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy