________________
चूर्णि भाग्यावचूरी उ० १ सू० ४१
आर्यदेश विहरणविधिः ३७
पूर्व निर्मन्थानां निर्व्रन्धीनां च रात्रौ वहिर्गमनविधिः प्रत्येकं पृथक्पृथकूत्वेन प्रतिपादितः, साम्प्रतं गमनप्रसङ्गात् निर्ग्रन्थनिर्ग्रन्थीनां समुच्चयेनाऽऽर्यदेशान् प्रदर्शयन् विहरणविधिमाह - 'कप्पइ० पुरत्थिमेणं' इत्यादि ।
सूत्रम् -- कप्पड़ निग्गंथाण वा निग्गंथीण वा पुरत्थिमेणं जाव अंगमगहाओ एत्तए, दक्खिणं जाव कोसंबीओ, पच्चत्थिमेणं जाव थूणाविसयाओ, उत्तरेणं जाव कुणालाविसयाओ एत्तए, एताaara कप्पर, एतावतान आरिए खेत्ते, णो से कष्पह एत्तो वाहि । तेण परं जत्थ नाणदंसणचरित्ताई उस्सप्पंति-त्ति वेमि ॥ सू० ४९ ॥
छाया - कल्पते निर्ग्रन्थानां वा निर्ग्रन्यीनां वा पौरस्त्ये यावत् अङ्गमगधान् एतुम्, दक्षिणे यावत् कौशाम्वीः, पाश्चात्ये यावत् स्थूणाविषयान्, उत्तरे यावत् कुणालाविषयान् तुम्, एतावत्तावत् कल्पते, एतावत्तावद् आर्य क्षेत्रम् | नो तेषां ( तासां वा ) कल्पते एतस्माद् बहिः । ततः परं यत्र ज्ञानदर्शनचारित्राणि उत्सर्पन्ति इति ब्रवीमि ॥ सू० ४९ ॥
चूर्णी - ' कप्पइ' इति । निर्ग्रन्थानां वा निर्ग्रन्यीनां वा द्वयानां 'पुरस्थिमेणं' पौरस्त्ये पूर्वदिशायां यावत् अङ्गमगघान् अङ्गजनपदं - मगधजनपद चावधीकृत्य अङ्गमगधदेशपर्यन्तमित्यर्थः । एतु ं विहर्तुं कल्पते । तत्र चम्पाप्रान्तसम्बद्धो जनपदः अङ्गपदेन प्रोच्यते, राजगृहसम्बद्धश्च जनपदो मगधशब्देन प्रोच्यते । अत्र सूत्रे बहुवचनं तद्गतानेकापान्तरालजनपदविवक्षया बोध्यम्, एवमग्रेऽपि । 'दक्खिणं' दक्षिणस्यां दिशि यावत् कौशाम्बीः, कौशाम्बीति कौशाम्बीनगर्युपलक्षितो जनपदः कौशाम्बीशब्देन प्रोच्यते इति कौशाम्बी सम्बद्धदेशपर्यन्तम् एतुं कल्पते, इति सर्वत्र संबध्यते । 'पच्चत्थिमेणं' पाश्चात्ये पश्चिमदिशायां यावत् स्थूणाविषयान् स्थूणादेशपर्यन्तम् एतु ं कल्पते । 'उत्तरेणं' उत्तरस्यां दिशि यावत् कुणालाविषयान् कुणालादेशपर्यन्तम् एतुं कल्पते । एताव'त्तावत् चतुर्दिक्षु पूर्वोक्तजनपदपर्यन्तमेव निर्ग्रन्थनिर्ग्रन्थीनां विहर्त्ती कल्पते । तत्र कारणमाह - 'एताव - ताव' एतावत्प्रमाणमेव कार्यक्षेत्रम्, अत्र तीर्थंकरादिमहापुरुषजन्मभूमित्वेन लोका धर्मिष्ठा: सन्ति तेन निर्ग्रन्थनिर्ग्रन्थीनां ज्ञानदर्शनचारित्राणामाराधना सम्यक् कर्तुं शक्यतेऽत एतावत्येव आर्यक्षेत्रे निर्ग्रन्थनिर्ग्रन्थीभिर्विहर्तव्यमिति भगवता समुपदिष्टम् । आर्यक्षेत्राद्वहिर्विहरणे निषेघमाह'नो से कप्पड़' इति । ‘से' इति तेषां निर्ग्रन्थानां तासां निर्ग्रन्थीनां वा नो कल्पते एतस्मात् क्षेत्राद् बहिर्विहर्त्तुम् । ज्ञानादिलाभार्थमपवादमाह – 'तेण परं' इति, ततः पूर्वोक्तमर्यादितार्यक्षेत्रात् परम्अग्रे अनार्यदेशेऽपि यत्र ज्ञानदर्शनचारित्राणि उत्सर्पन्ति वृद्धिमासादयन्ति तत्र विहर्तुं कल्पते, यदि पूर्वोक्तार्यक्षेत्राद्वहिः कारणवशात् श्रुतस्थविरास्तत्क्षेत्रेऽपि क्षेत्रगतजनानां सुलभबोधित्वप्राप्तिबुद्धया गता भवेयुः, ते च पश्चात् जावलक्षणत्वेन तत्रैव स्थिरवासे स्थिता भवेयुस्तेषां पार्श्वे ज्ञान