________________
व्यवहारसूत्रे
कुतो नाधिकं प्रायश्चित्त दातव्यम् यथा मासिकप्रतिसेवनानिमित्तप्रायश्चित्तावसरे समायस्य द्वैमासिकं प्रायश्चित्तविधानं कृतं तथा-घण्मासप्रायश्चित्तावसरे समायिकाय सप्तमासिकं प्रायश्चित्तं वक्तव्यं स्यात् किन्तु तथा न कृत्वा षण्मासावधिकमेव प्रायश्चित्तं प्रतिञ्कुचनाया अप्रतिकुञ्चनायाः कुतः कारणाद्विधीयते ? इति चेत् अत्रोच्यते-सत्यं भवता तर्कितम् षण्मासादप्यधिकं प्रायश्चित्तं दातव्यं प्रतिकुश्चिते, किन्तु इह जीतकल्पोऽयम्
अयं भाव-यस्य तीर्थकरस्य यावत्प्रमाणकमुत्कृष्टं तपःकरणं तस्य तीर्थकरस्य तीर्थ (शासने) अन्यसाधूनामुत्कृष्टं प्रायश्चित्तदानं तावत्प्रमाणकमेव, न ततोऽधिकं कदाचिदपि दातव्यम् । अन्तिमतीर्थकरस्य भगवतो महावीरस्वामिनः, उत्कृष्टं तपः पाण्मासिकं ततो भगवतो वर्द्धमानस्वामिनः शासने सर्वोत्कृष्टमपि प्रायश्चित्तदानं पाण्मासिकमेवेति । पाण्मासिकं परिहारस्थान प्रतिसेवनयापि आलोचनां कुर्वतोऽपि नाधिकमारोपणम् , अतस्त एव षण्मासा इति कथितम् ।। सू०६।।
सूत्रम् -जे भिक्खू बहुसोवि मासियं परिहारहाणं पडि से वित्ता आलोएज्जा । अपलिउंचिय आलोएमाणस्स मासियं, पलिउंचिय आलोएमाणस दोमासियं ॥ सू० ७॥
छाया-यो भिक्षुर्वहुशोऽपि मासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् । अप्रति कुञ्च्य आलोचयतः मासिकं, प्रतिकुच्य आलोचयतो द्वैमासिकम् ॥ सू० ७ ॥
भाष्यम्--'जे भिक्खू' इति । 'जे भिक्खू' यः कश्चिद् भिक्षु. 'बहुसो' बहुशः त्रिप्रभृतिवहुवारानपि आस्तामेकै द्वौ वारौ, इत्यपिशब्देन संगृह्यते 'मासिय' मासिकम् 'परिहारहाणं' परिहारस्थानम् 'पडिसेवित्ता' प्रतिसेव्य 'आलोएज्जा' आलोचयेत् आलोचनां कुर्यात् तस्य 'अपलिउंचिय आलोएमाणस्स' अप्रतिकुञ्च्यालोचयतः प्रतिकुञ्चनं माया, तामकृत्वा मायामन्तरेण शुद्धान्तःकरणेन आलोचयतः आलोचनां प्रायश्चित्तविधानं कुर्वतः 'मासियं' मासिकमेकम् एकमासमात्रस्य प्रायश्चित्तं गुरुर्वदेत् । तत्रैव यदि-'पलिउंचिय' प्रतिकुञ्च्य मायापूर्वकम् आलोचयतः 'दोमासियं' द्वैमासिकम् , द्विमासेन निवर्तनयोग्यं गुरुकं लघुकं वा प्रतिसेवनानुसारि प्रायश्चित्तम् । अप्रतिकुञ्च्यालोचयतो मासिकमेकं प्रायश्चित्तम् प्रतिकुञ्यालोचयतो द्वितीयो मायानि पन्नो गुरुमासो दीयते इति द्वैमासिकम् ।
इयमत्र भावना-केनाऽपि गीतार्थन कारणेन मयत्नतया त्रीन् वारान् , बहुवारान् वा, मासिकं परिहारस्थान प्रतिसेवितम् , आलोचनाकाले च येनाऽप्रतिकुञ्च्यालोचितं तस्मै एकमेव मासिकं प्रायश्चित्तं दीयते, न तु यावतो वारान् प्रतिसेवनां मासिकस्य कृतवान् , तावन्ति मासिकानीति । अथ प्रतिकुञ्चनया आलोचयति, ततो द्वितीयो मासो मायानिष्पन्नो दीयते इति वैमासिकमिति संक्षेपः ॥ सू० ७ ॥