SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० १ सू० ८-१२ परिहारस्थानसविनः प्रायश्चित्तविधिः ९ सूत्रम् - जे भिक्खू बहुसोवि दोमा सियं परिहारहाणं पडिसेवित्ता आलोएज्जा । अपलिउंचिय आलो एमाणस्स दोमासियं, पलिउचिय आलोएमाणस्स तेमासियं ॥ सू० ८ ॥ छाया - यो भिक्षुर्वशोऽपि द्वैमासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् । अप्रतिकुञ्च्य आलोचयतः द्वैमासिकं, प्रतिकुञ्चय आलोचयतः त्रैमासिकम् ॥ सू० ८ ॥ भाष्यम् - - ' जे भिक्खू' इति । 'जे भिक्खू' यः कश्चिद भिक्षुः 'बहुसोवि' बहुशोपि त्रि- चतुः - पश्च-वारानपि 'दोमासियं' द्वैमासिकं मासद्वयेन संपादन योग्यम् । 'परिहारद्वाणं ' परिहारस्थानं पापं पापप्रयोजकसावधकर्मानुष्ठानम् 'पडिसेवित्ता' प्रतिसेव्य, तस्य प्रतिसेवनां कृत्वा 'आलोएज्जा' आलोचयेत् आलोचनां प्रायश्चित्तविधि संपादयेत् । तस्य 'अपलिउंचिय आलोएमाणस्स' अप्रतिकुञ्च्य मायामकृत्वा विशुद्धान्तः करणेनालोचयतः 'दोमासिय' द्वैमासिकं मासद्वयेन निर्वर्त्तनीयं 'पलिउंचिय आलोएमाणस्स' प्रतिकुञ्च्य मायापूर्वकमालोचयतः 'तेमासियं' त्रैमासिकं प्रतिकुञ्ञ्ज्यालोचयतो मायानिष्पन्नस्तृतीयो गुरुमासो दीयते ॥ सू० ८ ॥ सूत्रम् -- जे भिक्खू बहुशोवि तेमासियं परिहारद्वाणं पडिसेवित्ता आलोएज्जा । अपलिउंचिय आलोएमाणस्स तेमासियं, पलिउंचिय आलोएमाणस्स चाउम्मासियं ॥ सू०९ ॥ छाया - -यो भिक्षुर्वहुशोऽपि त्रैमासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् । अप्रतिकुञ्च्य आलोचयतः त्रैमासिकं, प्रतिकुञ्च्य आलोचयतः चातुर्मासिकम् ॥ सू० ९ ॥ भाष्यम्--- 'जे भिक्खू' इति । 'जे भिक्खू' यो भिक्षुः 'बहुसोचि' बहुशोऽपि द्वित्रिचतुर्वारान् ततोऽधिकान् पञ्चषट्सप्तादिवारान् वा 'तेमासियं' त्रैमासिकं मासत्रयकालेन संपादनयोग्यम् ‘परिहारट्ठाणं' परिहारस्थानम् 'पडिसेवित्ता' प्रतिसेव्य 'आलोएज्जा' आलोचयेत् आलोचनां कुर्यात्, 'अपलिउंचिय' अप्रतिकुञ्न्य मायामकृत्वा 'आलोएमाणस्स' आलोचयतः मालोचनां कुर्वतः 'तेमासिय' त्रैमासिकम्, मासत्रयेण संपादनयोग्यं प्रायश्चित्तम् 'पलिउंचिय आलोएमाणस्स' प्रतिकुञ्भ्य मायापूर्वकमालोचयतः 'चाउम्मासिय' चातुर्मासिकम् प्रतिकुञ्च्यालोचयतः चतुर्थो मायानिष्पन्नो मासः ॥ सू० ९ ॥ सूत्रम् - जे भिक्खू बहुसोवि चाउम्मा सियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा । अपलिउंचिय आलोएमाणस्स चाउम्मासिगं पलिउंचिय आलोएमाणस्स पंचमासि ॥ १० ॥ छाया -यो भिक्षुर्व हुशोऽपि चातुर्मासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् । अप्रतिकुञ्च्य आलोचयतश्चातुर्मासिकं प्रतिकुञ्च्य भालोचयतः पाञ्चमासिकम् ॥ सू० १० ॥ भाष्यम् - - 'जे भिक्खू' इति । 'जे भिक्खू' यो भिक्षु' 'बहुसोवि' बहुशोऽपि त्रिचतुः पञ्चप्रभृतिवारानपि 'चाउम्मासिय' चातुर्मासिकं मासचतुष्टयेन संपादनयोग्यं 'परिहारहाणं' व्य, २
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy