________________
भाष्यम् ० १ सु० ६-७
परिहारस्थानसेविनः प्रायश्चित्सविधिः ७ "आकारैश्च स्वरैश्च, पूर्वाऽपरव्याहताभिश्वगीमिः । ज्ञात्वा कुञ्चितभावं परोक्षज्ञानिनों व्यवहरन्ति ॥१॥ "
' परोक्षज्ञानिनः श्रुतव्यवहारिण आचार्याः परान्तःकरणे विद्यमानां मायामाकारादिभिर्जानन्ति । तत्राऽऽकारा -शरीरगता भावविशेषाः । तत्र यः शुद्धस्तस्य सर्वेऽप्याकाराः सविग्नभावोपदर्शका भवन्ति, इतरस्य तु न तथा । तथा स्वराः विविक्ताः विस्पष्टाः अक्षुभिताश्च निस्सरन्ति । अशुद्धपुरुषस्य तु अव्यक्ताः पविस्पष्टा' क्षुभिता गद्दाश्च । तथा शुद्धस्य वाणी पूर्वापराऽव्याहता, अशुद्धस्य वाणी पूर्वापरविसंवादिनी । एवं परोक्षज्ञानिनः श्रुतव्यवहारिणः-आकारैः स्वरैः पूर्वापरव्याहताभिश्च वाणीभिः तस्याऽऽलोचकस्य अन्तःकरणगतं कुञ्चितभाव ज्ञात्वा तथा व्यवहरन्ति । पूर्व मायाप्रत्ययेन प्रायश्चित्तदण्डेन दण्ड्यते, पश्चात् अपराधप्रत्ययेन प्रायश्चित्तदण्डेनेति ।
अथ यदि विसदृशमालोचयति तदा गुरुणा वक्तव्यं यद्-भो भोः ! अन्यमुनिसमीपे गत्वा स्वकीयपरिहारस्थानस्य शुद्धिं कुरु । नाहं तवैतादृश्याः असद्दश्या आलोचनायाः सद्दावमजानानः शुद्धिं कर्तुं शक्नोमि, इति । शिष्यः पुनः प्रश्नयति-गुरो ! ससारपारावारसमुत्तरणकरण ! एतानि मासादीनि षण्मासपर्यन्तानि परिहारस्थानानि कुतः प्राप्तानि ? तत्राह-उद्गमादिरूपत्रिकस्थानातू एतानि परिहारस्थानानि प्राप्तानि भवन्ति । अयं भावः-उद्गमोत्पादनैषणासु यद् अकल्प्यप्रतिसेवनाया आचरणं तस्मादेवैतानि परिहारस्थानानि - प्राप्ताति भवन्तीति । सू० ५ ॥
सम्प्रति पाण्मासिकप्रायश्चित्तादूर्व प्रायश्चित्तं न भवतीति प्रदर्शयति-'तेण परं' इत्यादि। सूत्रम्-तेण परं पलिउंचिए वा अपलिउंचिए वा ते चेव छम्मासा ॥ सू० ६॥ छाया-ततः परं प्रतिकुञ्चिते वा अप्रतिकुञ्चिते वा त एव पण्मासाः॥ सू०६॥
भाष्यम्-'तेण परं' इति । 'तेण परं' ततः परं, रोनेति पञ्चम्यर्थे तृतीया, अथवा 'तेन' इति अव्ययं 'ततः' इत्यर्थे, तथा च तेन ततः पाञ्चमासिकप्रायश्चित्तस्थानात् परमूर्ध्व पाण्मासिकादिपरिहारस्थाने प्रतिसेविते सति, आलोचनाकाले प्रायश्चित्तसमये 'पलिउंचिए वा' प्रतिकुञ्चिते वा, प्रतिकुञ्चन-माया तत्सहिते वा 'अपलिउंचिए वा' अप्रतिकुञ्चिते वा मायारहिते वा, मायापूर्वकम् , अमायापूर्वकं वा आलोचिते इत्यर्थः । ते चेत्र छम्मासा' त एव षण्मासाः त एव प्रतिसेवनानिष्पन्नाः स्थिता मासाः पण्मासा एव, नाधिक प्रतिकुञ्चनानिमित्तमारोपण कर्तव्यम् ।