________________
चूर्णिमा यावरी उ० १ सू० ४१-४३
वस्त्रादिग्रहणविधिः ३१ परिहियते यत्तत् परिहारम्-उपभोगयोग्यं वस्त्रादिकं परिहत्तुं धत्तुमुपभोक्तुं वा कल्पते इति पूर्वेण सम्बन्धः ॥ सू० ३९॥
पूर्वसूत्रे भिक्षार्थगतस्य साधोहस्थोपनिमन्त्रितवस्त्रादिग्रहणविधिः प्रतिपादितः, साम्प्रतं विचारविहारभूमिगतस्य वस्त्रादिग्रहणविधिमाह-निग्गंथं च णं' इत्यादि,
सूत्रम्--निग्गंथं च णं वहिया वियारभूमि वा विद्यारभूमि वा निक्खंत समाणं केइ वत्थेण वा पडिग्गहेण वा कंवलेण वा पायपुंछणेण वा उवनिमंतेज़्जा, कप्पइ से सागारकडं गहाय आयरियपायमूले ठवित्ता दोच्चंपि उग्गहं अणुण्ण वित्ता परिहारं परिहरित्तए ॥ सू० ४०॥
छाया-निग्रन्थं च खलु बहिविचारभूमि वा, विहारभूमिं वा निष्क्रान्तं सन्तं कोऽपि वस्त्रेण वा प्रतिग्रहेण वा कम्बलेन वा, पादप्रोञ्छनेन वा उपनिमन्त्रयेत्, कल्पते तस्य सागारकृतं गृहीत्वा आचार्यपादमूले स्थापयित्वा द्वितीयमपि अवग्रह अनुज्ञाप्य परिहर्जुम् ॥४॥
चूणी-'निग्गंथं च णं' इति । निर्ग्रन्थं च खलु, 'पहिया' बहिः उपाश्रयाबहिःप्रदेशे विचारभूमि-विचारः-संज्ञा तस्य भूमिः विचारभूमिस्तां विचारभूमि स्थण्डिलभूमि मित्यर्थः, वाअथवा विहारभूमि-विहारभूमिरिति स्वाध्यायभूमिः मुनिर्यत्र शास्त्रस्वाध्यायार्थमुपाश्रयाबहिर्गत्वा एकान्तभूमौ आत्मद्वितीय आत्मतृतीयः सन् तत्र स्थित्वा सूत्रमथं तदुभयं च चिन्तयति सा विहारभूमिः समयभाषया कथ्यते, ततस्तां विचारभूमि विहारभूमि वा तत्र रामनार्थमित्यर्थः निष्क्रान्तं गत सन्तं कोऽपि गृहस्थः वस्त्रादिग्रहणार्थमुपनिमन्त्रयेत् यथा-'आगच्छतु भगवन् ! मम गृहे भवत्कल्प्यं वस्त्रादि गृह्णातु' इत्येवं प्रार्थयेत् तदा, इत्यादि यथा पूर्व मिक्षाचर्यागतस्य यो वस्त्रादिग्रहणविधिरुक्तः स एवात्र बोध्यः ॥ सू० ४०॥
पूर्व निर्ग्रन्थविषयकं भिक्षाचर्यार्थ गतस्य, तथा विचारभूमि विहारभूमि गतस्य च वस्त्रादिग्रहणविधिप्रतिपादकं सूत्रद्वयं प्रतिपादितम्, साम्प्रतं एष एव विधिर्निग्रन्थीमुद्दिश्य सूत्रयेन प्रतिपाद्यते-'निरगंथिं च णं' इत्यादि ।
सूत्रम् --निग्गंथिं च णं गाहावइकुलं पिंडवायपडियाए अणुप्पविटं केइ वत्थेण वा पडिग्गहेण वा कंवलेण वा पायपुंछणेण वा उचनिमंतेज्जा कप्पइ से सागारकडं गहाय पवत्तिणीपायमूले ठवित्ता दोच्चंपि उग्गई अणुण्णवित्ता परिहारं परिहरित्तए॥ निग्गथिं च णं वियारभूमि वा विहारभूमि वा निक्खंत समाणं केइ वत्थेण वा पडिग्गहेण वा कंवलेण वा पायपुंछणेण वा उवनिमंतेजा, कप्पइ से सागारकडं गहाय पवत्तिणीपायमूले ठवित्ता दोच्चपि उग्गहें अणुण्णवित्ता परिहारं परिहरित्तए ॥ सू० ४२॥