________________
बृहत्कल्पसूत्र तत्राऽशनाद्यर्थ गृहस्थगृहे प्रविशन्तं तमल्पवन दृष्ट्वा कश्चित् श्रावकस्तं मुनि वस्त्रादिग्रहणार्थमुपनिमन्त्रयति तदा साधुना किं कर्त्तव्यमिति तद्विधिं प्रदर्शयति-निग्गथं च णं' इत्यादि ।
सूत्रम्--निगं च णं गाहावइकुलं पिंडवायपडियाए अणुप्पविठं केई वत्येणे वा पडिग्गहेण वा कंवलेण या पायपुंछणेण वा उवनिमंतेज्जा, कंप्पइ से सागारकडे गहार्य आयरियपायमूले ठवित्ता दोच्चपि उग्गहं अणुण्णं वित्ता परिहारं परिहरित्तएं ॥ सू० ३९॥
छाया-निर्ग्रन्थं च खलु गाथापतिकुलं पिण्डपातप्रतिज्ञया अनुप्रविष्ट कश्चित् वस्त्रेण वा प्रतिग्रहेण वा कम्पलेन वा पादप्रोञ्छनेन वा उपनिमन्त्रयेत् कल्पते सागारकृतं गृहीत्वा आचार्यपादमूले स्थापयित्वा द्वितीयमपि अवग्रहम् अनुज्ञाप्य परिहार परिहर्तुम् ॥ सू० ३९॥
चूणी-'निरगंथं चे पं' इति । निर्ग्रन्थं च खलं वैराज्यविरुद्धराज्यविहारांदागतमल्पवनादिकं साधुम्, कीदृशम् ? पिण्डपातप्रतिज्ञया, तत्र पिण्ड:-ओदनादिस्तस्य पातः पात्रे पतनं ग्रहणं पिण्डपातस्तस्य प्रतिज्ञया-अशनादिग्रहणेच्छया गाथापतिकुल-गृहस्थगृहम् अनुप्रविष्टम्अनु-अन्ययाच कजननिस्सरणानन्तरं प्रविष्टम् अनुप्रविष्टम्, अनेन गृहस्थगृहे दीनार्थमपावृतद्वारं भवेदिति सूचितम्, गृहस्थगृहे गतं साधु कश्चित् श्रावकस्तमल्पवस्त्रादिकं दृष्ट्वा वस्त्रेण वस्त्रमुद्दिश्य, प्रतिग्रहेण-पात्रेण पात्रमुद्दिश्य कम्बलेन-ऊर्णामयवस्त्रेण ऊर्णामयवस्त्रमुद्दिश्य, पादप्रोञ्छनेन रजोहरणेन, अथवा 'पात्रप्रोञ्छनेनं' इति च्छाया, तत्र पात्राणां प्रोञ्छनकवत्रम् तेन, अथवा पात्रशब्देन पात्रबन्धः पात्रकेसरिकादिकः, प्रोञ्छनशब्देन रजोहरणं गृह्यते ततः पात्रं च प्रोञ्छनं चेति समाहारद्वन्द्वे पात्रप्रोञ्छनं तेन वा, तदुद्दिश्य उपनिमन्त्रयेत् वस्त्रादिग्रहणार्थं प्रार्थयेत, तदा 'से' तस्य उपनिमन्त्रितस्य मुनेः कल्पते तद् वस्त्रादिकं ग्रहीतुम् , केन विधिना कल्पते ? इत्याह-तद वनादिकं सागारकृतम्-सागारसम्बन्धिकम्, अगारेणं सहितः सागार:-गृहस्थः तत्सम्बन्धिकम्, इदं वस्त्रादिकं गृहस्थसत्कमेव, त्वत्सत्कमेव न ममेति कथनपूर्वकम् । अथवा साकारकृतमिति आकारेण सहितम्, यथा-संप्रति तवेदं वनादिकं गृह्णामि तत् प्रातिहारिकरूपेण गृह्णामि, यद्याचार्या ग्रहीष्यन्ति तदा तेभ्यो दास्यामि, अन्यथा प्रत्यावर्तयिष्यामि, एवरूपाकारपूर्वकम्, अथवा औचार्यसत्कमिदं वस्त्रं, न मम, ते यस्मै कस्मैचित् मह्यं वा दास्यन्ति, ते वा स्वयमस्योपभोगं करिप्यन्ति यत्तत्सम्बन्धिकमेवेदं वस्त्रादिकं भविष्यति नान्यस्य, यदि ते नादरिष्यन्ति तदैतद्वस्त्रादिकं सांगारकृतमेवेति तुभ्यमेवानीय परावर्तयिष्यामि, इत्येवं सविकल्पककथनपूर्वकं 'गहाय' गृहीत्वा आचार्यपादमूले-आचार्यचरणसमीपे स्थापयित्वा, यदि ते तस्मै एव ददाति तदा द्वितीयमपि वारम्-अवग्रहम्, प्रथमत एकोऽवग्रहः गृहस्थसम्बन्धी यो गृहस्थाद् गृहीतः, द्वितीय आचार्यसम्बन्धी, इत्येवं द्वितीय वारम् अवग्रहम् वस्त्रादिग्रहणाज्ञाम् अनुज्ञाप्य-गृहीत्वा परिहारं,