SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ वृहत्कल्पस्ने छाया-निर्ग्रन्थी च खलु गाथापतिकुलं पिण्डपातप्रतिक्षया अनुप्रविष्टां कोऽपि वस्त्रेण वा कम्बलेन वा पादमोञ्छनेन वा उपनिमन्त्रयेत्, कल्पते तस्याः सागारकृतं (साकारकृतं वा) गृहीत्वा प्रवर्तिनीपादमूले स्थापित्वा द्वितीयमपि अवग्रहम् अनुज्ञाप्य परिहारं परिदत्तम् ।। सू० ४१।। निर्ग्रन्थींच खलु विचारभूमि वा विहारभूमि वा निष्कान्ती सती कोऽपि वस्त्रेण वा प्रतिग्रहेण वा कम्बलेन वा पादप्रोञ्छनेन वा उपनिमन्त्रयेत् कल्पते तस्या सागारकृतं (साकारकृतं वा) गृहीत्वा प्रवर्तिनीपादमूले स्थापयित्वा द्वितीयमपि अवग्रहम् अनुज्ञाप्य परिहारं परिहर्तुम् ॥ सू० ४२॥ चूर्णी –'निग्गंथिं च णं गाहाइकुलं' इत्यादि, तथा 'निग्गंथि च णं वियारभूमि वा' इत्यादि च सूत्रद्वयमपि निग्रन्थसूावदेव व्याख्येयम्, नवरं विशेषस्त्वयम्-यत् निम्रन्थसूत्रद्वये 'आयरियपायमूळे ठवित्ता, आचार्यपादमूले स्थापयित्वा' इत्युक्तम , अत्र निर्ग्रन्थीसूत्रद्वये च पवत्तणीपायमूले ठवित्ता' 'प्रवर्तिनीपादमूले स्थापयित्वा' इति व्याख्येयम् तत्र । प्रवर्तिनीतिप्रवर्त्तयति-प्रेरयति स्वनिश्रागतसाध्वीः श्रुतचारित्रधर्मे या सा प्रवर्तिनी-दीक्षादात्री, पर्यायज्येष्ठा वा निर्ग्रन्थीति । शेपं सर्व निर्ग्रन्थमूत्रवदेव व्याख्येयमिति ॥ सू० ४२॥ अत्राह भाष्यकार—'सच्छदं' इत्यादि । भाष्यम्--सच्छंदं नो गिण्हे, नो परिभुजे य वत्थपत्ताई जं आयरियपदत्तं, तं गिण्हे तं च परिभुजे ॥सू०२९॥ एवं निग्गंथीणं, पवत्तिणीदत्तवत्थपत्ताई। कप्पइ किंतु सयं तं, नो गिण्हे नेव परिभुंजे ॥३०॥ छाया-स्वच्छन्दं नो गृहीयात्, नो परिभुञ्जीत च वस्त्रपात्रादि । यद् आचायप्रदत्तं, तद् गृहीयात् तच्च परिभुञ्जीत ॥२९॥ एवं निर्ग्रन्थीनां, प्रवर्तिनादत्तवस्त्रपात्रादि । कल्पते किन्तु स्वयं तद् नो गृह्णीयात् नैव परिभुञ्जीत । ३०॥ अवचूरी-'सच्छंद' इति । निर्ग्रन्थ वस्त्रपात्रादि गृहस्थगृहाद् गृहस्थहस्ताच्च स्वच्छंद स्वच्छन्दतया यथारुचि नो गृह्णीयात् , एवं गृहीतं च तद् नो नैव परिभुञ्जीत । किं कुर्यात् ? तत्राह-गृहीतं तद् वस्त्रादिकं साकारकृतमिति कृत्वा 'नेदं वस्त्रं मम, किन्तु आचार्यसत्कं प्रातिहारिकं वा अस्ति' इति कथनपूर्वक्रमादाय आचार्यसमीपे स्थापयेत् , तत्र यद् वस्त्रादिकमाचार्यप्रदत्तं भवेत्-आचार्या , उपाध्यायाः, पर्यायज्येष्ठा वा स्वेच्छया यद् वस्त्रादिकं दद्युस्तद् गृह्णीयात्, विनयवन्दनपूर्वक द्वितीयमवग्रहमनुज्ञाप्य स्वीकुर्यात् तच्चेति तदेव वस्त्रादिकं परिमुञ्जीत् स्त्रकायें व्यापारयेदिति निर्ग्रन्थकल्प ॥ २९ ॥ 'एवं' इति । एवम् अनेनैव प्रकारेण निर्ग्रन्थीनां साध्वीनां प्रवर्तिनीप्रदत्तवस्त्रपात्रादि ग्रहीतुं परिभोक्तुं च कल्पते, किन्तु तद् वस्त्रपात्रादिकं स्वयं स्वेच्छया गृहस्थाद् नो गृह्णीयात् न स्वीकुर्यात्
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy