________________
चूर्णिभाष्यावचूरो उ० १ सू० ३७-३८
विहरणविधिः २७ न वा कुर्यात् , इच्छया परः-द्वितीयः साधुस्तं साधु वन्देत वा, इच्छया परः अन्यः श्रमणो __ नं वन्देत वा, इच्छ्या परः साधुस्तेन साघुना सह संमुञ्जीत-एकसार्थ भोजनं दानग्रहणस
भोगं वा कुर्यात् वा, इच्छया परः अन्यो द्वितीयः साधुन संभुञ्जीत-एकमण्डल्यां भोजनं तेन सह न वा कुर्यात् , इच्छया परः साधुस्तेन साधुना सह संवसेत् सम् एकीभूय-एकस्मिन् उपाश्रये वसेद् वा, इच्छया परः साधु. न वा संवसेत्-एकीभूय एकत्रोपाश्रये न वसेद् वा, इच्छयों परः साधुः उपशाम्येद् वा इच्छया परः श्रमणो नोपशाम्येद् वा परम् , तत्र यः श्रमण उपशाम्यति कषायतापाऽपगमेन निर्वृतिमुपैति उपशम प्राप्नोतीत्यर्थः, तस्य सम्यग्दर्शनसम्यग्ज्ञानादीनामारीधना भवति, यः पुनः साधुः नोपशाम्यति उपशमं न प्राप्नोति तस्य साधोस्तेषां सम्यग्दर्शनादीनां नास्ति आरोघना, तस्मात् कारणात् एवम्-उक्तरीत्या विचिन्त्य-विभाव्य आत्मनैव उपशान्तव्यम् उपशमी विधेयः । शिष्यः-प्राह ‘से किमाहुते' हे मदन्त ! से तत् किमंत्र विषये कारणमाः उक्तवन्तः तीर्थकरमृतयः ? आचार्य आह–'उसमसारं सामन्न' उपशमसारम्-उपशर्मः सारों यत्र तत् उपशेमंसारमेव श्रामण्यं भवति, नोपशमरहितं श्रामण्यमित्यर्थः, उपशमवर्जितस्य श्रामण्यस्य निष्फलत्वादिति भावः । तथा चोक्तम्-'सामन्नेऽणुचरंतस्सं कसायी जस्स उक्कडा होति ।
मन्नामि उच्छुपुरफ व, निफैलं तस्स सामन्नं ॥१॥
श्रामण्यमनुचरतः कपाया यस्य उत्कटा भवन्ति । मन्ये इक्षुपुष्पमिव निष्फलं तस्य श्रामण्यम् ॥१॥ इति । सू०३५॥
अथ पूर्वोक्ताऽधिकरणसूत्रेण सहास्य वर्षावासगमननिषेधसूत्रस्य कः सम्बन्धः । इत्यत्राह भाष्यकार:--'किच्ची' इत्यादि ।
भाष्यम्-किच्चा कलहं गच्छइ, आगच्छइ वा पुणो य खामेउं । वासावासे नेवं, करणिज्जं एस संबंधो ॥२८॥
अवचूरी-'किच्चा कलहं' इति । केनापि साघुना सहाधिकरणे समुत्पन्ने तयोईयोर्मध्ये एकेन विवेकिना भिक्षुणा 'उपशमसारं श्रामण्यम्' इति गुरूपदेशमभिसंधाय तदधिकरणं क्षमापनादिना उपशमितम् किन्तु येन सहाऽधिकरणं समुत्पन्नं स उपशाम्यमानोऽपि नोपशान्तो भवेत् स कषायानुबद्धमनाः श्रमणोऽन्यत्र ग्रामादौ 'कलह किच्चा' अधिकरणं कृत्वा गच्छति, अथवा यः पूर्वमनुपशान्तः सन् अन्यत्र ग्रामादौ गतः स तत्र तस्य मतिपरिवर्तनेन शुभपरिणामवंशात् स्वयम्, अन्यसाधूपदेशेन वा येन सहाधिकरणं जातं भवेत्तं साधु 'सामे' क्षमयितुं स्वापराधं क्षमापनार्थम् गच्छति, अथवा अन्यत्र गतः स सांवत्सरिकक्षमापनाकाले आसन्ने समायोते सति विचारयेत्-'यन्मया तदधिकरण न क्षमितमतः कथं तावन्मम सांवत्सरिकप्रतिक्रमणं कत्तुं कल्पते' इति विचिन्य तं श्रमण क्षमयितुं पुनरप्यागच्छति , अथवा श्रमणानां परस्परमधिकरणमुत्पन्नमिति श्रुत्वीऽन्यत्र स्थितोऽन्यः