SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ૨૮ वृहत्कल्पसूत्रे कश्चित् प्रवचनोड्डाहभीरुर्धर्मश्रद्धालुः साधुस्तदधिकरणमुपशमयितुं तत्रागच्छति, एवम् तत् तदीयगमनागमनं शुद्धमपि वासावासे वर्षावासे वर्षाकाले 'न करणिज्जं' न करणीयम् यतो वर्षाकाले साधूनां गमनागमनं न कल्पते, इत्येष एव पूर्वसूत्रेण सहाऽस्य सूत्रस्य सम्बन्धः॥२८॥ अनेन सम्बन्धेनायातं वर्षांवासे गमनागमननिषेधपरकमिदं सूत्रमाह - 'नो कप्पइ' इत्यादि । सूत्रम् - - नो कप्पइ निग्गंथाण वा निग्गंथीण वा वासावा सेसु चरित्तर || ३६ ॥ छाया -नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा वर्षावासेषु चरितुम् ॥ सू०३६॥ चूर्णी - 'नो कप्पइ' इति । निर्ग्रन्थानां निर्ग्रन्थीनां च वर्षावासेषु वर्षायां वर्षांकाले वासः वर्षावासः, तस्य चातुर्मासरूपत्वाद बहुत्वविवक्षायां तेषु वर्षावासेषु चतुर्मासरूपेषु वर्षाकालसम्बन्धिषु चतुर्षु मासेषु चरितुं विचरितुम् एकस्माद् ग्रामादन्यस्मिन् ग्रामे गन्तुं न कल्पते । वर्षासु विहरतः षट् कायविराधनेन संयमात्मविराधना भवति । तत्र पकायविराधना यथा - वर्षाकाले पन्थानः अमर्दिता भवन्ति तेन पृथिवीकाय विराधना ९, जलक्लिन्नमार्गे गमनेऽप्कायविराधना सुस्पष्टैव २, उपधेर्जलक्लिन्नत्वेन तापनार्थं मतिर्भवेत्तेन तापनबुद्ध्याऽग्निकायविराधनादोषः समापयेत ३, जलाईवायोस्तीव्रगत्या वायुकायविराधना ४, वर्षाकाले भूमौ दूर्वादिवनस्पतिकायः समुद्भवति, जलसद्भावात् पनकसंमूर्च्छनमपि भवति, इत्यादिना वनस्पतिकायविराधना ५, वर्षाकाले इन्द्रगोपशिशुनागाद्यनेकसा भूमौ विचरन्ति तेन त्रसकायविराधना भवेत् ६ । एवं सयमविराधना भवति । आत्मविराधना तु अनेकप्रकारा भवति यथा - कर्दमपिच्छिले मार्गे पादस्खलन, तेन विषमे भूप्रदेशे निपतनं भवेत्, जलेऽदृश्यमानकीलककण्टकादि वा चरणयोविद्धं भवेत्, अकस्मात् गिरिनद्यादि जलपूरेणान्यत्र नयनं भवेत्, इत्याद्यनेकप्रकाराऽऽत्मविराधना भवेत् । तीर्थकराज्ञाविराघना तु स्पष्टैव शास्त्रे, चातुर्मास - विहरणस्य निषिद्धत्वात् । तस्मात् निर्ग्रन्थैर्निर्ग्रन्थीभिश्च वर्षाकाले विहरणं न विधेयम्, अपवादे राज्योपद्रवे ग्रामदाहे दुर्भिक्षे जलप्लाविते ग्रामे, इत्यादिसंयमयात्रानिर्वाहबाधकेषु कारणेषु समुपस्थितेषु वर्षाकालेऽपि तत्रतो निर्गमनमावश्यकं भवेदिति ॥ सू०३६॥ पूर्व - वर्षावासे चातुर्मासे श्रमणानां विहरणं न कल्पते इति प्रतिपादितम्, अथ कस्मिन् काले श्रमणानां विहरणं कल्पते ? इति प्रश्ने विहारकल्पकालं प्रदर्शयन्नाह - ' कप्पइ' इत्यादि । सूत्रम् -- कप्पर निम्गंथाणं वा निग्गंथीणं वा हेमंतगिम्हासु चरित्तए । ०३७ ॥ छाया -कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा हेमन्तग्रीष्मेषु चरितुम् ॥०३७|| चूर्णी - ' कप' इति । निर्ग्रन्थानां वा निर्ग्रन्थीनां वा 'हेमंत गिम्हासु' हेमन्तग्रीष्मेषु हेमन्तग्रीष्मसम्वन्धिषु अष्टसु मासेषु ऋतुबद्धे काले इत्यर्थः चरितुं विचरितुं कल्पते, ऋतुबद्धकाले शुष्क भूम्यादिकारणेन संयमात्मविराधनाया असंभवात् ॥ सू० ३७||
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy