________________
२६
बृहत्कल्पसूत्रे
एतेन सम्बन्धेनायातमिदमधिकरणोपशमनसूत्र प्रस्तौति - ' भिक्खू य' इत्यादि ।
सूत्रम् -- भिक्खू य अहिगरणं कट्टु तं अहिगरणं विओसवित्ता त्रिओस वियपाहुडे, इच्छाए परो आढाइज्जा इच्छाए परो तो आढाइज्जा, इच्छाए परो अब्भुट्टिज्जा इच्छाए परो नो अब्भुट्टिज्जा, इच्छाए परो चंदिज्जा इच्छाए परो नो चंदिज्जा, इच्छाए परो संभुजिज्जा इच्छाए परो नो संभुंजिज्जा, इच्छाए परो संवसिज्जा इच्छाए परो नो संबसिज्जा, इच्छाए परो उपसमिज्जा इच्छाए परो नो उवसमिज्जा, जो उवसमइ तस्स अस्थि आराहणा, जो न उवसमइ तस्स नत्थि आराहणा, तम्हा अप्पणा चेव उवसम्रियं । से किमाहु भंते ! ? उवसमसारं सामण्णं ॥ सू०३५॥
छाया - भिक्षु अधिकरणं कृत्वा तद् अधिकरणं व्यवशसय्य व्यवशमितप्राभृतः इच्छया पर आद्रियेत इच्छया परो नो आद्वियेत, इच्छया परः अभ्युत्तिष्ठेत् इच्छया परो नो अभ्युत्तिष्ठेत् इच्छया परो वन्देत इच्छया परो नो वन्देत, इच्छया पर संभुजीत इच्छया परो नो संभुञ्जीत इच्छया पर संवसेत्, इच्छया पसे न संवसेत्, इच्छया पर उपशाम्येत् इच्छ्या परो नो उपशाम्येत्, य उपशास्यति, तस्य अस्ति आसधना, यो नोपशाम्यति तस्य नास्ति आराधना, तस्मात् आत्मनैव उपशमितव्यम्, तत् किमाहुः भदन्त ! ? उपशमसारं श्रामण्यम् ॥स्०३५॥
चूर्णी – 'भिक्खू' इति । भिक्षुस्तावत् सामान्यसाधुः चकारात् आचार्य उपाध्यायश्च, व्यधिकरणम्-अधिक्रियते नरकगतिगमनयोग्यतां प्राप्यते आत्मा येन तत् अधिकरणम् कलहः प्राभृतमित्येकोऽर्थ' तत् कृत्वा तथाविधद्रव्यक्षेत्रादिसांनिध्यो पबृंहितात् कषायमोहनीयोदयाद् अपरश्रमणेन सह कलहरूपम् अधिकरणं विधायेत्यर्थः तदनन्तरं स्वयमन्योपदेशेन वा तस्य कलहस्य ऐहिकपारलौकिकप्रत्यवायबाहुल्यं परिभाव्य तद् अधिकरणं कलहरूपम् व्यवशमय्य वि-त्रिविधै: - अनेकैः प्रकारैः स्वापराद्यप्रतिपत्तिपूर्वकं मिध्यादुष्कृतदानेन अवशमय्य-उपशमं प्रापय्य तदनन्तरं व्यवशमितप्राभृत – विशेपेण अवशमितम् उपशान्तीकृतम् अवसानं प्रापितं प्राभृतं कलहो येन स व्यवशमितप्राभृतो दूरीकृतकलहो भवेदित्यर्थः तथा च गुरुसन्निधौ स्वदुश्चरितमालोच्य तव्प्र॒दत्तप्रायश्चित्तं च यथावत् प्रतिपद्य पुनस्तदकरणायाभ्युत्तिष्ठेत् । अथ येन सह कलहरूपम् अधिकरणम् उत्पन्नम् स यदि उपशमं नीयमानोऽपि नोपशाम्यति तदा किं कुर्यात् 2 इत्यत आह— 'इच्छाए परो आढाएज्जा' इत्यादि, इच्छया यथास्वरुच्या यथेच्छमित्यर्थः, परः - अन्यों द्वितीयः श्रमण आद्रियेत वा, इच्छया यथास्वरुचि स्वेच्छानुसारं परः - अन्यो द्वितीयः साधुः नाहियेत वा, पूर्ववत् सम्भाषणादिभिरादरं विदध्याद् वा न वेति भावः, एवम् इच्छया स्वेच्छानुसारं परः–अन्यो द्वितीयः साधुः तम् - उपशामकम् साधुम् अभ्युत्तिष्ठेत् तस्य अभ्युत्यानं कुर्याद् वा, इच्छया - स्वेच्छानुसारं परः - अन्यो द्वितीय. साधुर्नाऽभ्युत्तिष्ठेत् - अभ्युत्थानं