________________
चूणिभाष्यावचूरी उ० १ सू० ३६
अधिकरणोपशमनविधिः २५, मृदुमुग्धहृदया भवन्ति, लोके च शीललुण्टाका विषयलोलुपा धूर्ती जना अनेकविधवचनचाटुत्वेन ता मोहयन्ति, बलात्कारं वा कुर्वन्ति, इत्यादिकारणवशात्तासां संबन्धिजनासन्नत्वेन निर्दोषे तादृशे उपाश्रयेऽपि वस्तुं कल्पते इति प्रोक्तम् ॥सू० ३५॥
अत्राह भाष्यकार:-'सीलस्स' इत्यादि । भाष्यम्--सी लस्स रक्खणह, निग्गंथीणं पकप्पए तत्थ । अप्पडिबद्धे वासे,को तासिं रक्खणं कुज्जा ॥२५॥ छाया-शीलस्य रक्षणार्थ, निर्ग्रन्थीनां प्रकल्पते तत्र । अप्रतिवद्ध वासे, कस्तासां रक्षणं कुर्यात् ॥२५॥
अवचूरी-'सीलस्स' इति । निम्रन्थीनां शीलस्य ब्रह्मवतस्य रक्षणार्थ रक्षानिमित्त तत्र प्रतिबद्धोपाश्रये, तथा यत्र सम्बन्धिजनगाथापतिकुलमध्यमार्गेण गमनागमनयुक्ते उपाश्रये वा वस्तुमवस्थातुं प्रकल्पते युज्यते तत्र मूलगुणभूतब्रह्मव तरक्षायाः सुशक्यत्वात् । अन्यथा अप्रतिबद्धाधुपाश्रयवासे उपसर्गोत्पादकेभ्यो दुष्टजनेभ्यस्तासां रक्षणं कः कुर्यात् ? अतो निम्रन्थीनां प्रतिवद्धोपाश्रये वस्तुं कल्पते इत्युक्तम् ॥२५॥
अत्र पूर्वापरसूत्रयोः सम्बन्धमाह भाष्यकारः~-'निग्गंथाण.' इत्यादि । भाष्यम्--निग्गंथाणमकप्पं, निग्गंथीणं च कप्पमिह वुत्तं । एयं असदहतो, करेज्ज जइ सोऽत्थ अहिगरणं ॥२६॥ तत्थ य किं कायव्यं, उपसमियव्यं च होइ अहिगरणं । एसो संबंधो इह, सुत्तेण पुन्चभणिएणं ॥२७॥ छाया -निम्रन्थानामकल्प्यं, निर्ग्रन्थीनां च कल्प्यमिहोक्तम् ।
एतद् अश्रदधानः कुर्यात् यदि सोऽत्र अधिकरणम् ॥२६॥ । तत्र च किं कर्तव्यम्, उपशमितव्यं च भवति अधिकरणम् ।
एप सम्बन्ध इह, सूत्रेण पूर्वभणितेन ॥२७॥
अवचूरी-'निग्गंथाण' इति । निर्ग्रन्थानां गाथापतिकुलस्योपाश्रयमार्गेण गमनागमनयुक्ते उपाश्रये सवसनम् अकल्प्यम् अकल्यत्वेन प्रतिपादितम्, इह तत्रैव तादृशे एव उपाश्रये निम्रन्थीनां च संवसनं कल्प्यमुक्तं-कल्यत्वेन प्रतिपादितम् । एतद्-वैपम्यं साधुसंघे कश्चित्साधुः अश्रद्दधानः तत्राश्रद्धां कुर्वाणो विवादग्रस्तो भूत्वा यदि तत्र साधुमण्डल्याम् अधिकरणं कलहं कुर्यात् तत्र कलहविषये किं कर्तवम् ?
___ तत्राऽऽचार्य माह-'उवसमियव्यं' इत्यादि, तदुत्पन्नमधिकरणं भगवचनश्रद्धावता साधुना साध्वाचारं विभाव्य उपशमितव्यं भवति स स्वावनतत्वेनाधिकरणस्योपशमं कुर्यादिति भावः, इत्यधिकरणस्योपशमनसूत्रमत्र प्रोच्यते । इह अत्र विपये पूर्वभणितेन सूत्रेण सह एप सम्बन्धः ।।