SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ वृहत्कल्पसूत्रे निवासः कल्पते, यतः पूर्व सान्वीनां सागारिकनिश्रया वस्तुं कल्पते इति प्रतिपादितम् , तासां शीलरत्नरक्षाया आवश्यकत्वात् , अत्र सागारिकाः मातृष्वस-भगिनी-भ्रातृजाया-मातृ-पितृ-भ्रातृपितामही-मातामही-प्रभृतिसम्बन्धिजनरूपा विज्ञेयाः, तत्प्रतिबद्ध उपाश्रये साध्वीभिर्वस्तव्यं नत्वन्यस्मिन् पतिपल्यादिप्रतिबद्धे दुष्टजनप्रतिबद्धे वा, यतस्तत्र वसन्तीनां शीलरत्नरक्षा सुलभा भवति, सम्बन्धिजना' समर्था. सन्त उपसर्गकारकान् दुष्टजनान् निवारयन्ति अतो निर्ग्रन्थीनां निर्दोघे प्रतिबद्धोपाश्रये निवसनमावश्यकमिति ज्ञात्वैव भगवता निर्ग्रन्थीभ्यः प्रतिबद्धोपाश्रये वासो विहित इति । भावतः प्रस्रवण-स्थान-रूप-शब्द-भेदाच्चतुर्विधे प्रतिश्रये वसन्तीनां साध्वीनां पूर्वोक्ता एव दोषाः समापतन्त्येवेति तादृशे प्रतिवद्धे उपाश्रये साध्वीभिर्न कदाऽपि वस्तव्यमिति तात्पर्यम् ॥ सू० ३२॥ पूर्व निर्ग्रन्थसूत्रे प्रतिवद्धोपाश्रयो निषिद्धः, तत्प्रसङ्गात् यत्रोपाश्रये गृहस्थगृहमध्यमार्गेण गमनागमन भवेत् सोऽपि प्रतिबद्ध एव कथ्यते, इति निर्ग्रन्थानां तादृशे उपाश्रये वस्तुं न कल्पते इति निषेधसूत्रमाह-'नो कप्पइ०' गाहावइ० इत्यादि । सूत्रम्-- नो कप्पइ निग्गंथाणं गाहावइकुलस्स मज्झमज्झेणं गंतुं वत्थए ॥ सू०३३॥ छाया-नो कल्पते निर्ग्रन्थानां गाथापतिकुलस्य मध्यमध्येन गत्वा वस्तुम् ॥सू०३३॥ चूर्णी-'नो कप्पइ' इति । निर्ग्रन्थानां साधूनां गाथापतिकुलस्य गृहस्थगृहस्य मध्यमध्येन-मध्यमार्गेण गत्वा उपाश्रये गम्यते निर्गम्यते च, एवमुपलक्षणात् यस्योपाश्रयस्य मध्य मार्गेण गृहस्थाः स्वगृहे प्रविशन्ति निर्गच्छन्ति वा तादृशे उपाश्रये वस्तुं न कल्पते । तत्र निवासे गमनागमनसमये साधूनां गृहस्थप्रक्रियायां दृष्टिपातो भवेत् , गृहस्थानामुपाश्रयमार्गेण गमनागमने ते साधूनामाहारोपवेशननिषदनादिप्रक्रियां पश्यन्ति तेन तेषां परस्परं तत्तत्प्रक्रियाणां समालोचनासंभवस्ततः परस्परं द्वेषकलहादिसभवः, साधूनां तत्रस्थस्त्रीरूपदर्शने मोहोदयो वो भवेत् , ततः श्रामण्ये शङ्काकाङ्क्षाद्यनेके दोषाः समापतन्ति तस्मादेतादृशे उपाश्रये निर्ग्रन्थानां वस्तुं न कल्पते ॥सू० ३३॥ निर्ग्रन्थीनां पूर्वोक्ते उपाश्रये कारणसद्भावाद् वस्तुं कल्पते इति निर्ग्रन्थीसूत्रमाह-'कप्पइ० गाहावइ०' इत्यादि । सूत्रम्-कप्पइ निग्गंथीणं गाहावइकुलस्स मज्झमज्ञण गंतुं वत्थए ॥सू०३४॥ छाया-कल्पते नि न्थीनां गाथापतिकुलस्य मध्यमध्येन गत्वा वस्तुम् ॥सू०३४॥ चूर्णी – 'कप्पइ' इति । निर्ग्रन्थीनां गाथापतिकुलस्य मध्यमध्येन गत्वा उपाश्रये गम्यते निर्गम्यते एतादृशे उपाश्रये वस्तुं कल्पते । ननु निर्ग्रन्थसूत्रप्रोक्ता दोषास्तु साध्वीनामेव समापतन्ति तर्हि कथं तासां 'कल्पते' इति विधिरुक्तः ? अत्राह-निर्ग्रन्ध्यः स्त्रीत्वेन स्वभावत एव
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy