________________
पूर्णिमान्यापधुरी उ० १ सू० ३२-३४
वसतिवासविधिः २३ भित्यादि यस्मिन् उपाश्रये गृहस्थगृहेण साई संबद्धं भवेत् गृहस्थगृहस्य उपाश्रयस्य चाच्छादनादिकाष्ठं भित्तिर्वा एका भवेत्, यत्र स्थितैर्गृहस्थस्त्रीपुरुषाणां शब्दादि श्रूयते एष द्रव्यतः प्रतिबद्धः । भावतः प्रतिबद्धश्चतुर्विधः- प्रस्रवण-स्थान-रूप-शब्दभेदात् । एते चत्वारो भेदा भावप्रतिवद्धे भवन्ति । यत्रोपाश्रये साधूनां गृहस्थस्त्रीपुरुषाणां च एकैव कायिकी भूमिर्भवेत् स प्रस्रचणप्रतिबद्धः प्रथमः १, यत्रैकमेवोपवेशनस्थानं भवेत् स स्थानप्रतिबद्धो द्वितीयः २, यत्र स्त्रीणां रूपसौन्दर्यादि विलोक्यते स रूपप्रतिवद्धस्तृतीयः ३, यत्र पुनः स्थितैः स्त्रीणां भाषाभूषणपदन्यासादिशब्दाः रहस्यशब्दाश्च श्रूयन्ते स शब्दप्रतिबद्धश्चतुर्थः ४ । अत्र द्रव्यभावसंयोगे चत्वारो भङ्गा भवन्ति तथाहि-द्रव्यतः प्रतिबद्धो न भावतः १, भावतः प्रतिबद्धो न द्रव्यतः २, द्रव्यतो भावतश्च प्रतिबद्धः ३, न द्रव्यतो न भावतः प्रतिबद्धः ४ । अत्र चतुर्थो भगोऽनुज्ञातः, उभयथाऽप्यन्नतिबद्धत्वात् । अत्र तु प्रतिबद्धोपाश्रये निवासविषयो निषेधो विहितः । प्रतिबद्धोपाश्रये वसतां निम्रन्थानामाज्ञाभङ्गादयो दोषाः समापतन्ति । साधवो द्विविधाः प्रोक्ताः-भुक्तभोगिनः अभुक्तभोगिनश्च, तत्र ये भोगान् भुक्त्वा पश्चात् प्रव्रजितास्ते भुक्तभोगिनः, ये च कुमारावस्थायामेव प्रवजितास्ते अमुक्तभोगिनः प्रोच्यन्ते ।
अत्र चतुर्विधे भावप्रतिबद्धे दोषा इमे-प्रस्रवणप्रतिबद्धे-कायिक्यादिकरणे अकस्मात् गृहस्थस्त्रीणां साधूनां चैकत्रागमनं संभवेत् १, स्थानप्रतिवद्धे स्वाध्यायादिसमये द्वयानामेकत्रोपवेशनं भवेत् २, रूपप्रतिबद्धे-स्त्रीणां रूपसौन्दर्याङ्गचेष्टाद्यवलोकन भवेत् ३, शब्दप्रतिबद्ध-स्त्रीणां इसित-गीत-क्रन्दित-कूजित-प्रेमालापादिशब्दश्रवणं भवेत् ४ । एतेन भुक्तभोगिनां भुक्तभोगस्मृतिर्जायते, अभुक्तभोगिनां कौतुकादि जायते, तेन ब्रह्मवते शङ्काकाङ्क्षादिना व्रतभङ्गदोषप्रसङ्गः। तत्र वसतां निर्ग्रन्थानामाज्ञाभङ्गमिथ्यात्वानवस्थादयोऽनेके दोषाः संभवन्ति, अतः प्रतिवद्धायां बसतो निम्रन्थानां वासो न कल्पते इति भावः ॥ सू० ३१॥
पूर्व प्रतिबद्धशय्यायां निर्ग्रन्थानां वासो निषिद्धः, साम्प्रतं निर्ग्रन्थीनां तत्र वासः कल्पते इति विधि प्रदर्शयति-'कप्पइ० पडिवद्ध०' इत्यादि ।
सूत्रम्--कप्पइ निग्गंथीणं पडिबद्धसिज्जाए वत्थए ॥सू०३२॥ छाया-कल्पते निम्रन्थीनां प्रतिवद्धशय्यायां वस्तुम् ॥३२॥
चूर्णी-'कप्पई' इति । निर्ग्रन्थीना प्रतिवद्धशय्यायां वस्तुं कल्पते इति सूत्रार्थः । ननु पूर्वोक्तस्वरूपायां प्रतिबद्धशय्यायां तु निर्ग्रन्थीनामपि पूर्वोक्ता एव दोपाः संभवन्ति तहिं कथं तासां 'कल्पते' इति प्रोक्तम् ? तत्राह-निर्ग्रन्थीनां केवलस्त्रीजनप्रतिवद्धोपाश्रये सम्बन्धिजनप्रतिबदोपाश्रये वा वस्तुं कल्पते इति सूत्रकाराभिप्रायो बोध्यः, तत्र केवलस्त्रीजन-सम्बन्धिजन-प्रतिबद्धखेन द्रव्यभावभेदभिन्नस्यापि तस्य निर्दोषत्वसद्भावात् साध्वीनां द्रव्यत. स्त्रीप्रतिवद्धे उपाश्रये