________________
वृहत्कल्पसूत्रे
1
यतः साधूनां स्त्रीसागारिकवासे ब्रह्मणि ब्रह्मव्रते दोषाः संभवेयुः तथा च उहः - लोके निन्दा जायते यदेते साधवः स्त्रीसागारिके उपाश्रये वसन्ति तेन ज्ञायते नैतेषां ब्रह्मव्रतं विशुद्धम्, स्त्रीसंसर्गे पुरुषाणां मनोविकारादेरवश्यम्भावादिति, यतः संयमात्मविराधनादयोऽनेके दोषास्ततो निर्ग्रन्थानां स्त्रीसागारिके उपाश्रये वासो भगवता निषिद्धः । अथापवादमाह - अन्योपाश्रयाला भे पुंवसतौ पुरुषसागारिके निर्ग्रन्थानां वस्तुं कल्पते, किन्तु अत्रापि च एकद्विरात्रं यावत् वस्तुं कल्पते नाधिकम्, आधिक्येन पुरुषसंसर्गेऽपि पुरुषाणां सविकारनिर्विकारादिभिरनेकदोषसंभवादिति |२४|
२२
पूर्व निर्ग्रन्थानां स्त्रीसागारिकापाश्रये वासी निषिद्धः, पुरुषसागारिकोपश्रये चापवादेन विधिः प्रोक्तः, साम्प्रतं निर्ग्रन्थीनां वासावासविधि प्रदर्शयितुमाह - 'नो कप्पइ०' इत्यादि । सूत्रम्--नो कप्पइ निगगंधीणं पुरिससागारिए उवस्सए वत्थए । सू०२९ ।। aaut निगंीणं इत्थीसागारिए उवस्सए वत्थए || सू०३०||
छाया -नो कल्पते निग्रन्धीनां पुरुषसागारिके उपाश्रये वस्तुम् ॥ सू०२९॥ कल्पते निर्मन्थीनां स्त्रीसागारिके उपाश्रये वस्तुम् ||३०||
चूर्णी - 'नो कप्पड़' इति । यथा निर्ग्रन्थानां खोसागारिके उपाश्रये वासनिषेधः प्रोक्तस्तथैवाश्र निर्ग्रन्थीनां पुरुषसागारिके उपाश्रये वासनिषेधः प्रोच्यते, तथाहि - निर्ग्रन्थीनां पुरुषसागारिके पुरुषसहिते उपाश्रये यत्र पुरुषाः वार्त्तालापं कुर्वन्ति क्रीडन्ति लेखनादिकार्य च कुर्वन्ति, तद्गतमार्गेण गमनागमनं वा कुर्वन्ति तादृशे उपाश्रये, तथा तिर्यक्पुरुषा अपि गोमहिषाजाश्वादिरूपा वृद्धा अबद्धा वा भवेयुस्तादृशे उपाश्रये निर्ग्रन्थीनां वस्तुं न कल्पते, स्त्रीजातीनां पुरुषजातिभिः संसर्गोऽपि नोचितः, कदाचिन्मनुष्याणां मनोविकारादि संभवे बलात्कारादिना संयमात्मविराधनासंभवात् । सू०२९॥ स्मथापवादमाह–‘कृप्पइ' इत्यादि । अन्योपाश्रयाभावे निर्ग्रन्थीनां श्रीसागारिके स्त्रीजनसंयुक्ते उपाश्रये वस्तुमल्पकालाय कल्पते । यथा निर्ग्रन्थानां स्त्रीसागारिके पूर्व दोषाः प्रोक्तास्त एवात्र निर्ग्रन्थीसूत्रे पुरुषसागरिके 'वैपरीत्येन वा वोद्धव्या इति ॥ सू० ३० ॥
पूर्वं समुच्चयेन विभागेन च स्त्रीपुरुषसागारिकप्रतिश्रयापरपर्याया शय्या प्रतिपादिता, संप्रति सागारिकप्रतिबद्धोपाश्रयविषये निर्ग्रन्थानां निषेधं निर्ग्रन्थीनां च विधिं प्रतिपादयितुकामः प्रथमं निर्ग्रन्थानां प्रतिबद्धशय्यायां वासनिषेधमाह - 'नो कप्पइ० पडिवद्धसेज्जाए' इत्यादि । सूत्रम्--नो कप्पड़ निग्गंथाणं पडिबद्धसेज्जाए वत्थए ||३१|| छाया - नो कल्पते निर्ग्रन्थानां प्रतिवद्धशय्यायां वस्तुम् ||३१||
}
चूर्णी - 'नो कप्पइ' - इति । नो कल्पते निर्ग्रन्थानां प्रतिबद्धशय्यायां शय्येति वसतिः उपाश्रय इत्यर्थः, प्रतिबद्धेति गृहस्थगृहेण सह एकभित्यादिरूपेण सचद्धा सा प्रतिबद्धा कथ्यतें, एतादृशी शय्या—उपाश्रयः प्रतिबद्धशय्या, तस्यां वस्तुं निर्ग्रन्थानां न कल्पते इति सूत्राशयः । प्रतिबद्धोपाश्रयो द्विविधः द्रव्यप्रतिबद्धः भावप्रतिबद्धश्चेति । तत्र द्रव्यतः प्रतिबद्धः वलभीकाष्ठ