SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ चूणिभाष्यावचूरी उ० १ सू० २३-३१ वसतिवासविधिः २१ पूर्वं सागारिकोपाश्रये वासो निषिद्धः, असागारिके च वासो विहितः, साम्प्रतं निर्ग्रन्थानां स्त्रीप्तागारिकोपाश्रये, निर्ग्रन्थीनां च पुरुषसागारिकापाश्रये वासस्य कल्पाकल्पविधिं सूत्रचतुष्टयेन प्रतिपादयन् प्रथमं निर्ग्रन्थविषयकं सूत्रद्वयमाह - 'नो कप्पइ० इत्थीसागारिए' इत्यादि । सूत्रम्-नो कप्पइ निग्गंथाणं इत्थीसागारिए उवस्सए वत्थए || सू०२७|| कप्पइ निग्गंथाणं पुरिससागारिए उवस्सए वत्थए || सू०२८|| छाया -- नो कल्पते निर्ग्रन्थानां स्त्रीसागारिके उपाश्रये वस्तुम् ॥ सू० २७|| कल्पते निर्मन्थानां पुरुषसगारिके उपाश्रये वस्तुम् || सू० २८|| चूर्णी - 'नो कप्पइ' इति । नो कल्पते निर्ग्रन्थानां साधूनां स्त्रीसागारिके उपाश्रये वस्तुम्, तत्र स्त्रीभिः मनुष्यतिर्यक्त्रीभिर्यः सागारिकः स्त्रीसागारिकः - यत्रोपाश्रये स्त्रियो वसन्ति खण्डनपेषणादिकार्यं कुर्वन्त्यस्तिष्ठन्ति गमनागमनं वा कुर्वन्ति, अथवा यत्रोपाश्रये स्त्रीणां प्रवेशनिर्गममार्गों वा भवेत्, अथवा तिर्यकत्रियो यत्र गोमहिष्यजादिरूपा तिर्यक्त्रयस्तिष्ठन्ति बद्धा भवन्ति वा सोऽपि स्त्रीसागारिकः प्रोच्यते, तस्मिन् त्रीसंसर्गोपेते उपाश्रये साधूनां वस्तुं नो कल्पते, तत्र वासे साधूनां ब्रह्मव्रतभङ्गप्रसङ्गात् ॥ सू० २७॥ अथ पुरुषसागारिके निर्ग्रन्थानां वासः कल्पते इति द्वितीय सूत्रमाह- 'कप्पइ' इत्यादि कल्पते निर्मन्थानां पुरुषसागारिके उपाश्रये वस्तुम् । साधूनां पुरुषशरीरत्वेन पुरुषसंसर्गे दोषाऽसंभवात्, इदमपवादिकं सूत्रम्, तेन विशुद्धाऽन्योपाश्रयाभावे एकद्विरात्रं यावद् यतनया तत्र वस्तुं कल्पते नाधिकमिति विज्ञेयम् ॥ सू० २८|| अत्राह भाष्यकारः - ' इत्थी' इत्यादि । भाष्यम् -- इत्थी दुविहा बुत्ता, माणुस्सित्थी तदेव तेरिस्थी । दुविहाव जत्थ चिट्ठ, सिउं नो कप्पइ जईणं ॥२३॥ थीसागारियवासे, वंभे दोसा तहा य उड्डाहो । कप्पड़ पुंवसहीए, एत्थेपि य एगदुगरतिं ॥ २४ ॥ छाया - स्त्री द्विविधा प्रोक्ता, मानुपस्त्री तथैव तिर्यकस्त्री । द्विविधाsपि यत्र तिष्ठति, वस्तुं नो कल्पते यतीनाम् ||२३|| स्त्रीसागारिकवासे, ब्रह्मणि दोषाः तथा च उड्डाहः । कल्पते पुंवसतौ, अत्रापि च एकद्विकरात्रम् ||२४|| अवचूरी - ' इत्थी' इति । अत्र स्त्रीसागारिके उपाश्रये निर्ग्रन्थानां वासो निषिद्धः, तत्र स्त्री द्विविधा प्रोक्ता तद्यथा - मानुषस्त्री तिर्यक्त्री च, एवं द्विविधाऽपि स्त्री यत्र तिष्ठति, पुरुषस्त्रियो रन्धनकुट्टनादिकार्यं कुर्वन्त्यो निवसन्ति, तथा तिर्यस्त्रियश्च गोमहिष्यजादिरूपाः बद्धा अबद्धा वा यत्र तिष्ठन्ति तत्र यतीनां निर्ग्रन्थानां वस्तुं न कल्पते ॥२३॥
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy