________________
गृहत्कल्पसत्रे
(१) द्रव्यतः सागारिक:-भावतोऽपि सागारिकः । (२) द्रव्यतः असागारिकः-भावतः सागारिकः । (३) भावतः असागारिकः-द्रव्यतः सागारिकः । (४) द्रव्यतः-असागारिकः-भावतोऽपि असागारिकः । ___ एषु चतुर्यु भङ्गेषु अन्तिमो भगो ग्राह्यः ।
एवम्भूते सागारिके उपाश्रये वसतां द्वयानां निर्ग्रन्थ-निर्ग्रन्थीनां तद्गतविलासिवस्तुजातावलोकनेन मनोविकारादिना संयमविराधना, तद्गतवस्तुजातस्य चौर्यादिना च आत्मविराधना संभवेदिति ॥सू०२५॥
अत्राह भाष्यकारः-'सागारियवसहीए' इत्यादि । भाष्यम्--सागारियवसहीए, वसमाणाण इवंति बहुदोसा ।
मोहेण पुवसरणं, तेणागमणं च तग्गहणे ॥२२॥ छाया -सागारिकवसतौ वसतां भवन्ति वहुदोपाः । मोहेन पूर्वस्मरणं, स्तेनाऽऽगमनं च तद्ग्रहणे ॥२२॥
अवचूरी-'सागारियवसहीए' इति । सागारिकवसतौ गृहस्थवस्तुजातसहितोपाश्रये वसतां निर्ग्रन्थानां निर्ग्रन्थीनां च बहुदोषाः बहवो दोपाः संयमात्मविराधनारूपा भवन्ति, कथमित्याह-मोहेन तद्गतवस्त्राभूषणपन्यवाद्यवलोकनेन पूर्वस्मरणं पूर्वस्य गृहस्थावस्थारूपपूर्वकालस्य स्मरणं भवेत् , यत्-'ममापि एतादृशानि सुन्दराणि वस्त्राभूषणादीनि आसन्' इत्यादिस्मरणेन संयमविराधना भवेत् । तया तत् तस्य वस्त्राभूषणादिवस्तुजातस्य ग्रहणे ग्रहणाथै स्तेनागमनं स्तेनानां चौराणामागमनं भवेत् , तैर्वस्तुजातं चौरित वा भवेत् तेन साधुसाध्वीविषये गृहस्थस्य शङ्का जायते ततः सः साधु साध्वीं वा राजपुरुषैहियेत् तेन आत्मविराधनासंभवः, तस्माद्धेतोः सागारिकोपाश्रये साधु-साध्वीनां वस्तुं न कल्पते इति भावः ॥२२॥
पूर्व सागारिके उपाश्रये साधुसाध्वीभिर्निवासो न कर्त्तव्य इति प्रोक्तम् , सम्प्रति सागारिकरहितोपाश्रये निवासः कल्पते इत्याह-'कप्पइ' इत्यादि ।
सूत्रम्-कप्पइ निग्गंथाण वा निग्गंथीण वा अप्पसागारिए उवस्सए वत्थए ।२६। छाया- कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा अल्पसागारिके उपाध्ये वस्तुम् ॥
चर्णी-'कप्पई' इति । निर्ग्रन्थानां निर्ग्रन्थीनाम् अल्पसागारिके, अत्र अल्पशब्दः अभाववाची तेन असागारिके सागारिकं गृहस्थसम्बन्धिवस्त्रभूषणादिवस्तुजातं, तद् यत्र न विद्यते सः अल्पसागारिकः, तस्मिन् गृहस्थसम्बन्धिवस्तुरहिते उपाश्रये वस्तुं कल्पते, तत्र पूर्वोक्तदोषोऽसभावात् ।। सू० २६॥