SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ विभाण्यावरी उ० १ सू० २४-२६ वसतिवासविधिः १९ छाया -सागारिकनिश्रां यदि अकृत्वा साध्यस्तिष्ठन्ति । प्राप्नुवन्ति आशाभक्कान् तस्मात् निश्रया वस्तव्यम् ॥२०॥ निश्राकरणे स पुनस्तासां रक्षां करोति दुष्टात् । श्वापदस्तेनादितः, रक्षणमिह भवति तत्कार्यम् ॥२१॥ __ अवचूरी-'सागारियणिस्सं' इति । सागारिकनिश्रां शय्यातरस्याऽऽलम्बनम् अकृत्वा यदि साध्य. उपाश्रये तिष्ठन्ति तदा आज्ञाभङ्गान् तीर्थंकराज्ञाविराधनादिदोषान् प्राप्नुवन्ति । तस्मात् कारणात् साँचीभिः निश्रया सागारिकनिश्रया वस्तव्यम् ॥२०॥ यतः निश्राकरणे स शय्यातरः पुनः दुष्टात् दुष्टजनात् कामुकादिदुष्टपुरुषात् तासां रक्षा करोति, एवं करणे न कोऽपि तासां काश्चिदपि बाधामुत्पादयितुं शक्नोति, तथा श्वापदस्तेनादितः-श्वापदेभ्यः हिंसपश्वादिभ्यः चौरादिभ्यश्च तासामिह उपाश्रये रक्षणं रक्षाकरणं तत्कार्य तस्य तत् कार्यमेव भवति ॥२१॥ उक्तं निम्रन्थीनां सागारिकनिश्रया संवसनम् , साम्प्रतं निर्ग्रन्थानां तु सागारिकस्य निश्रयाऽनिश्रया वा वस्तुं कल्पते इति प्रदर्शयति-'कप्पई' इत्यादि । सत्रम--कप्पई निग्गंथाणं सांगांरियस्स णिस्साए वा अणिस्साए वा वत्थए ।२४॥ लाया-कल्पते निर्ग्रन्थानां सागारिकस्य निश्रया वा अनिश्रया वा वस्तुम् स्०ि २४॥ चूर्णी- 'कप्पई' इति । निम्रन्थानां यत् श्वापदस्तेनादिबहुल क्षेत्रं भवेत्तत्र तेभ्यो रक्षादिकारणे सति सांगरिकस्यै शय्यातग्य निश्रया आलम्बनेन 'वयमत्र वसामः अस्माकं रक्षा त्वया कर्त्तव्या' इत्यादिरूपेण गृहस्थस्यालम्बनं कृत्वा वस्तुं कल्पते, अथ चौऽसति पूर्वोक्त कारणे सागारिकस्याऽनिश्रेयाऽपि वस्तुं कल्पते, पुरुषत्वेन स्वभावत एवं धृतिबलादिसंपन्नत्वात्तेषाम् , निर्ग्रन्थीनां तु कारणे अकारणे वी सौगारिकनिश्रां विना न कदापि वस्तुं कल्पते, इति द्वयोः सूत्रयोभिन्नत्वम् ॥२४॥ ‘पर्व निर्ग्रन्थानां सागारिकस्य निश्रयाऽनिश्रया वा निवासः प्रोक्तः, साम्प्रतं गृहस्थवस्तुजतिसंसोगारिकसंहिते उपाश्रये निर्ग्रन्थनिम्रन्थीनां द्वयानामपि वस्तुं न कल्पते, इति प्रतिपादयति-- 'नो कप्पइ० सागारिए' इत्यादि । सूत्रेम--नो कप्पइ निग्गंथाणं वा निग्गंधीणं वा सागारिए उवस्सए वत्थए ।२५। लाया-नो कल्पते निर्ग्रन्थानां वा निम्रन्थीनों वा सागारिके उपाश्रये वस्तुम् ॥सू.२५।। चणी-'नो कम्पइ' इति । निर्ग्रन्थानां निर्ग्रन्थीनां च सागारिके–अगारिण इदं वस्तुजातं आगारिक, आगारिकेण सहितः सागारिकः, यत्रोपाश्रये गृहस्थस्य वस्त्राभूषणखष्ट्वापल्यकादिगृहसामग्री वर्तते सः सागारिक उपाश्रयः कथ्यते, तस्मिन् वस्तुं न कल्पते इति । सागारिकं द्विविधम्अव्यतागारिकं भावसागारिकं च, तत्र द्रव्यसागारिक वस्त्राभूषणादिवस्तुनातम् , भावसागारिकम्ईक्लेिशादिमयो मनोभावः, यत्र गृहस्थानां तदुपाश्रयविषये परस्परं मनसि ईक्लेिशादिभावः परम्परागत माधुनिको वा संभवेत्तादृश उपाश्रयो भावसागारिकः प्रोच्यते, अत्र चतुर्भङ्गी यथा
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy