________________
पररकल्प पूर्व निम्रन्थ-निर्ग्रन्थीनामुदकतीरे स्थानादिकरणं निषिद्वम् । सम्प्रति चित्रकर्मयुक्तोपाश्रये निर्ग्रन्थनिम्रन्थीभिर्न वस्तव्यमिति सचित्रकर्मोपाश्रयनिषेधमाह-'नो कप्पइ० सचित्तकम्मे' इत्यादि।
सूत्रम्--नो कप्पइ निग्गंधाण वा निग्गंधीण वा सचित्तकम्मे उबस्सए वत्यए ॥० २०॥ कप्पइ निग्गंथाण वा निग्गंथीण वा अचित्तकम्मे उबस्सए वत्थए । मु०२१॥
छाया- नो कल्पते निर्ग्रन्थानां वा निग्रन्थीनां वा सचित्रकर्मणि उपाश्रये वस्तुम् ॥सू० २०॥ कल्पते निग्रन्थानां वा निर्ग्रन्थीनां वा अचित्रकर्मणि उपाभये वस्तुम् ॥सू० २१॥
चूर्णी-'नो कप्पइ' इति । निम्रन्थानां वा निर्ग्रन्थीनां वा सचित्रकर्मणि चित्रकर्मणा सहिते उपाश्रये वस्तुं न कल्पते, तत्र चित्राणि भित्यादौ रक्तपीतादिरागद्रव्येण मनुष्य-स्त्री-पशुपक्षि-नदी-पर्वत-गृह-वृक्ष-लतादीनामाकृतिरूपाणि, तैः सहिते चित्रिते उपाश्रये साधुसाध्वीनां निवासो निषिद्धः, यतः सचित्रोपाश्रये वसतां साधूनां साध्वीनां च हास्यकौतुककेलिभुक्तभोगस्मृतिमनोविकाराद्यनेकदोषाणां समवः, अतो मुनिभिस्तत्र वासो न विधातव्यः ॥सू०२१॥ एवं चित्रकर्मरहिते उपाश्रये साघुसाध्वीनां वस्तुं कल्पते इति द्वितीयसूत्रार्थः ॥सू. २२॥
पूर्वोक्तचित्रकर्मरहिते उपाश्रये साधुसाध्वीनां वासः कल्पते, तत्रापि साध्वीनां सागारिकनिश्रया वस्तुं कल्पते, न त्वनिश्रयेति प्रदर्शयन् सूत्रद्वयमाह-'नो कप्पइ० सागारिय०' इत्यादि ।
सूत्रम्-नो कप्पइ निगथीणं सागारियअणिस्साए वत्थए । मू०२२।। कप्पइ निग्गंथीणं सागारियणिस्साए वत्थए ॥ सू० २३॥ छाया-नो कल्पते निन्थीनां सागारिकानिश्रया वस्तुम् ।। स्. २२॥ कल्पते निग्रन्थीनां सागारिकनिश्रया वस्तुम् ॥ स २३॥
चूर्णी-'नो कप्पई' इत्यादि । चित्रकर्मरहिते उपाश्रयेऽपि निम्रन्थीनां सागारिकाऽनिश्रया सागारिकस्य शय्यातरस्य उपाश्रयस्वामिनः अनिश्रया, निश्रेति आलम्बनम् शय्यातरस्वालम्बनं विनेत्यर्थः, आलम्बनं यथा-भो शय्यात्तर ! वयमत्र निवसामस्तवाऽऽज्ञयाऽतोऽस्माकं त्वया निरीक्षणं कर्तव्यम्, इति कथन, तेन विना निर्ग्रन्थीनां तत्र वस्तुं न कल्पते ॥ सू०२२॥ 'कप्पई' इति सागारिकनिश्रया शय्यातराऽऽलम्बनेन निम्रन्थीनां तत्र वस्तु कल्पते, इति ॥ सू०२३॥
अत्राह भाष्यकारः-'सागारियनिस्सं' इत्यादि । भाष्यम्--सागारियनिस्सं जइ, अक्किच्चा साहुणीउ चिट्ठति । पावंति आणभंगे, तम्हा निस्साए वसियध्वं ॥२०॥ निस्साकरणे सो पुण, तासिं रक्खं करेइ दुट्ठाओ । सावयतेणाइत्तो, रक्खणमिह होइ तक्कज्जं ॥२१॥