SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ पूर्णिभाष्याघचूरी उ० १ सू०२०-२३ वसतिवासविधिः १७ तद् उदकतीरं, न वा यावान् भूभागो जलपूरेण आक्रम्यते तद् उदकतीरम् , न वा यावन्तं प्रदेश तरङ्गाः स्पृशन्ति तद् उदकतीरम् , नो वा यावान् प्रदेशो जलेन स्पृष्टो भवति तद् उदकतीरमिति भावः । तस्मिन् , तत्र चिहित्तए वा स्थातुं ऊर्ध्वस्थानेनाऽवस्थातुम्, निसीइत्तए वा निषत्तुं वा उपवेष्टुम्, तुयहित्तए वा त्ववर्तयितुं वा कायमायतं कृत्वा पार्श्वपरिवर्तन कर्तुम् निदाइत्तए वा निद्रायितुं वा सुखप्रतिबोधावस्थारूपया निया शयितुम्, पयलाइत्तए वा प्रचलायितुं वा यत्र स्थितेनैव निद्रायते सा प्रचला कथ्यते, स्थितस्य निद्रातुम् , तथा असणं वा अशनादिचतुर्विधमाहारं वा आहरित्तए वा आहत्तुं कर्तुम्, पुनश्च उच्चारादिकं परिष्ठापयितुम्, तत्र उच्चार-प्रस्रवणं, खेलं कफलक्षणं श्लेष्माणम् सिंघाणं नासिकामलम्, एतानि शरीरसम्बन्धिमलानि परिठवित्तए परिष्ठापयितुं परित्यक्तुम्, तथा सज्झायं वा करित्तए स्वाध्यायं सूत्रार्थोभयपरिवर्तनरूपं कर्तुम्, पुनश्च धम्मजागरियं वा जागरित्तए धर्मजागरिकां तत्वविचारणारूपां जागरितुं कर्तुम् काउस्सग वा करित्तए कायोत्सर्ग लोगस्सगुणनर्वकं कायनिश्चेष्टतारूपं कर्तुम् ठाणं वा ठाइत्तए स्थानं वा यत्र एकस्थाने पादमारोप्य ऊर्ध्वस्थितेन कार्योत्सर्गः क्रियते तत् स्थानमिति कथ्यते, तत् तादृशं कायोत्सर्ग स्थातुं-कर्तुं निम्रन्थानां निर्ग्रन्थीनां वा नो कल्पते इति । उदकतीरे स्थानादिकं कुर्वतो निम्रन्थादेराज्ञाभङ्गादिका दोषाः समापद्यन्ते ॥१९॥ अत्राह भाष्यकारः-'दगतीरे' इत्यादि । भाष्यम्-दगतीरे ठाणाइ य, नो करणिज्जं भवेज्ज साहूणं । तत्थ अणेगे दोसा, तेणं पावंति पच्छित्तं ॥१८॥ जीवाणं जलपाणे, जमंतराओ जणे य उड्डाहो । . सिंगाइणा य हणणं, विराहणं:संजमप्पाणं ॥१९॥ छाया -दकतीरे स्थानादि च नो करणीयं भवेत् साधूनाम् । , तत्रानेके दोषाः तेन प्राप्नुवन्ति प्रायश्चित्तम्॥१८॥ जीवानां जलपाने यद् अन्तरायः जने च उद्याहः । भृङ्गादिना च हनन, विराधनं संयमात्मनोः ॥१९॥ अवचूरी-'दगतीरे' इति । उदकतीरे जलाशयसांनिध्ये स्थानादि स्थाननिषदनादि सूत्रोक्तं सर्व साधूनां साध्वीनां च करणीयं नो भवेत्' न कर्त्तव्यमित्यर्थः । यतस्तत्र स्थानादिकरणे अनेके वक्ष्यमाणा दोषा भवन्ति तेन कारणेन ते प्राप्नुवन्ति प्रायश्चित्तम् ॥१८॥ दोषा यथा जीवानां जलपानेऽन्तरायो भवेत् , तथा जने लोकमध्ये उद्दाहः अपवादः निन्दनं भवेत् , पशवश्च शृङ्गादिना साधुसाध्वीनां हननमपि कुर्युः, इत्यादिना संयमात्मनो. संयमस्यात्मनश्च विराधनं जायते इति भाष्यार्थः ॥१९॥
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy