________________
वृहत्कल्पसूत्रे
M
पूर्व निर्ग्रन्थनिर्ग्रन्थीनां कायिक्यादिनिमित्तं घटीमात्रकधारणाऽधारणे विधिनिषेधश्च प्रोकः, तत् कायिक्यादि आहारादि च चिलिमिलिकाप्रावृते स्थाने एव कर्त्तव्यं भवेदिति सा चिलिमिलिका कस्य वस्तुनो भवितुमर्हतीति तत् प्रदर्शयितुमाह-'कप्पई' इत्यादि ।
सूत्रम्-कप्पइ निग्गथाण वा निग्गथीण वा चलचिलिमिलियं धारित्तए वा, परिहरित्तए वा ।। सू० १८॥
छाया -कल्पते निर्घन्धानां वा निम्रन्थीनां वा चेलचिलमिलिकां धत्तुं वा परिहा वा ॥ स्०१८ ॥ __ चूर्णी-'कप्पइ' इति । निर्ग्रन्थानां निर्ग्रन्थीनां वा द्वयानामपि चेलचिलिमिलिकां चेलमिति वस्त्रं, तस्य
तेन निर्मितां वा चिलिमिलिकां धतु परिहतुं च कल्पते इति सूत्रार्थः, यतो वारज्जुकटवंशदलादिचिलिमिलिकासु केवलं वस्त्रचिलिमिलिकैव कल्पते, रज्ज्वादिचिलिमिलिकासु मत्कुणमशकादिलघुजन्तूनामुत्पत्तिसंभवात् ता. दुष्प्रतिलेल्या भवन्ति तेन सयमात्म विराधनाऽवश्यम्भाविनीति ।। सू०१८॥
पूर्वमनावृतस्थाने आहारादिकं कुर्वतः निम्रन्थान् निम्रन्थींश्च कश्चित् सागारी मा पश्यतु, इति विभाव्य चिलिमिलिका क्रियते, इति प्रतिपादितम्, साम्प्रतमनावृतस्थानप्रसंगाद् उदकतीरे स्थाननिषदनादिनिषेधं प्रतिपादयन्नाह-'नो कप्पइ ...दगतीरंसि' इत्यादि ।
सूत्रम्-नो कप्पइ निग्गंथाण वा निग्गंथीण वा दगतीरंसि चिट्टित्तए वा निसीइत्तए वा, तुयट्टित्तए वा निदाइत्तए वा पयलाइत्तए वा, असणं वा पाणं वा खाइम वा साइमं वा आहारित्तए, उच्चारं चा पासवणं वा खेलं वा सिंघाणं वा परिहवित्तए, सज्झायं वा करित्तए, धम्मजागरियं वा जागरित्तए, काउस्लग्गं वा करित्तए, ठाणं वा ठाइत्तए । सू० १९॥
छाया -नो कल्पते निर्ग्रन्थानां वा निग्रन्थीनां वा उदकतीरे स्थातुं वा निषत्तुं वा त्वग्वर्त्तयितुं वा निद्रायितुं वा प्रचलायितुं वा अशनं वा पानं वो खाद्यं वा स्वाय वा आहर्तुम्, उच्चार वा प्रावणं वा खेलं वा सिवाणं वा परिष्ठापयितुम्, स्वाध्याय वा कर्तुम्, धर्मजागरिकां वा जागरितुस्, कायोत्सर्ग वा कर्तुम्, स्थानं वा स्थातुम् ॥सू. २०॥
चूर्णी- 'नो कप्पई' इति । निर्ग्रन्थानां निम्रन्थीनां च उदकतीरे स्थाननिषदनादि किमपि कार्य कत्तुं न कल्पते इति सूत्राशयः । तत्र किं किं न कर्त्तव्यम् ? इति प्रदर्शयति-'दकतीरंसि वा' उदकतीरे अत्र उदकशब्देन उदकस्थानं गृह्यते तेन उदकस्य नदीतडागादेः तीरम् उदकतीरम्, यत्राऽऽरण्यका ग्रामेयका वा पशव मनुष्याः स्त्रियो वा जलार्थिनोऽवतरीतुकामा उत्तरीतुकामा वा तत्र स्थितं साधं दृष्ट्वा तिष्ठन्ति निवर्तन्ते भयोद्विग्ना वा भवन्ति, तथा यत्र स्थितं साधुं दृष्ट्वा मत्स्यकच्छपादयो जलचरास्त्रस्यन्ति विभ्यति तादृशं स्थानमुदकतीरं कथ्यते, नतु यत्र जलं नीयते