________________
~
चुणिभाष्यावचूरी उ० १ सू० १६-१९
वसतिवासविधिः १५ अन्यस्थानाभावे, चिलिमिलिं कृत्वा च वस्तव्यम् । निर्ग्रन्थानां कल्पते, पुरुषत्वेन च नो हानिः ॥१७॥ __ अवचूरी-'अव्वाउडढुवारे' इति । अप्रावृतद्वारे उपाश्रये निम्रन्थी भिस्तत्र न वस्तव्यं न वासः कार्यः, स्त्रीत्वेन तत्र वसन्तीनां नानाविधजनदृष्टिपातादिसंभवात्, यत्र स्थाने ब्रह्मणि ब्रह्मव्रते रक्षा पुनर्दुर्लभा भवति तस्मादप्रावृतद्वारे निर्ग्रन्थीनां वासो निषिद्ध ॥१६॥
___ अपवादे-विकाले विद्वत्यागतानामन्यस्थानाभावे एकद्विरात्रार्थ निवास आवश्यको भवेत्तदा तत्र चिलिमिलिं-वस्त्रादिना चिलिमिलिकां कृत्वा तत्र वस्तव्यम् । निर्ग्रन्थानां च तत्र वासः कल्पते यतस्तेषां पुरुषत्वेन पुरुषशरीरत्वेन नो हानिः न काचिदपि हानिरतस्तेपां तादृशे उपाश्रये वासो विहित इति । निर्ग्रन्थानामप्येतदपवादिकं सूत्रम् , तेन अन्यस्थानाभावे साधूनां तत्र एकद्विरात्रार्थ वासः कल्पते, न तु ततः परमिति भावः ॥ सू० १७ ॥
पूर्व चिलिमिलिकया प्रावृते उपाश्रये निर्ग्रन्थ्यो वमन्ति तत्र रात्रौ मात्र विना कायिक्यादिव्युत्सर्जनार्थ बहुशो बहिनिर्गमप्रवेशं कुर्वन्त्यो निम्रन्थ्यो दुःखपूर्वकं निर्गच्छन्ति प्रविशन्ति च तस्मात् कायिक्यादिव्युत्सर्जनार्थ घटोमात्रक मावश्यामिति घटीमात्रकधारणविधिप्रतिपादक सूत्रमाह-कप्पइ' इत्यादि।
सूत्रम्-कप्पइ निग्गंथीणं अंतोलित्तं घडिमत्तयं धारित्तए वा परिहरित्तए वा ॥ सू०१६॥
छाया-कल्पते निर्यन्थीनां अन्तर्लिप्तं घटीमाकं धर्नु वा परिहर्नु वा ॥सू० १६
चूर्णी-'कृप्यइ'-इति । कल्पते निग्रन्थीनां अन्तर्लिप्त-अन्तर् मध्ये लिप्तं श्लक्ष्णपदार्थलेपेन प्रलदणीकृतं घटीमात्रकं घटी-लघुघट , तत्संस्थानकं मात्रकं काष्ठपात्र धत्तुं पार्वे स्थापयितुम् परिहत्तम् उपभोक्तं कल्पते इति पूर्वेण सम्बन्धः । अन्तर्लिप्तमिति विशेषणं-अन्तर्लिप्ते प्रलदणे पात्रे कायिक्यादिलेपसंश्लेषणाभावात् समूर्छिमोत्पत्त्यभावप्रदर्शनार्थभिति--॥ सू०१६ ॥ __ पूर्व निर्ग्रन्थीनां घटीमात्रकधारणं प्रोक्तं, तत्तु निर्ग्रन्थानां न कल्पते, इति प्रदर्शयितुमाह'नो कप्पइ' इत्यादि ।
सूत्रम्-नो कप्पइ निग्गथाणं अंतोलितं घडिमत्तयं धारित्तए वा परिहरित्तए वा ॥सू०१७॥
छाया-गो कल्पते निर्ग्रन्थानामन्तर्लिप्त घटीमात्रकं धर्तु वा परिहत्तु वा ॥सू. १७॥
चूर्णी- 'नो कप्पइ' इति । पूर्वोक्तमन्तर्लिप्तं घटीमात्र निर्ग्रन्थानां धर्नु परिहत्तुं वा न कल्पते । तेषां तद्भिन्नाकारकं सामान्य काष्ठपात्रं कायिक्यादिनिमित्तं कल्पते, यत. साधूनां पात्रचतुष्टयं कल्पते तत्र त्रीणि पात्राणि अशनादिनिमित्तम् , चतुर्थे च कायिक्यादिनिमित्तं ते स्थापयन्तीति घट्याकारकं मात्रकं तेषां न कल्पते, तदाकारावलोकनेन मनोविकारसभवादिति भावः ।।मू०१७ ॥