SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ १२ वृहत्कल्पसूत्रे छाया -क्षेत्रे संकुचिते खलु निष्क्रमण तथा प्रवेशनमेकम् ! तत्रैकत्र स्थितानां गमनागमे च वहुदोषाः ||१२|| तस्मात् अनेकवगडा अनेकद्वाराणि भवन्ति यत्रैव । तत्रैव निवस्तव्यं, भिक्षासंज्ञादिसुलभार्थम् ||१३|| अवचूरी – 'खेत्ते ' इति । क्षेत्रे संकुचिते खलु निश्चयेन यत्र निष्क्रमण तथा प्रवेशनं चैकं भवति तत्र तस्मिन् क्षेत्रे ग्रामादौ एकत्र स्थितानां निर्ग्रन्थानां निर्ग्रन्थीनां च गमनागमने बहुदोषा बहवः दोषाः संभवन्ति ||१२|| तस्मात् कारणात् यत्र अनेका वगडा अनेकानि द्वाराणि च यत्रैव यस्मिन्नेव ग्रामादौ भवन्ति तत्रैव निर्ग्रन्थैः निर्ग्रन्थीभिश्च निवस्तव्यं निवासः कर्त्तव्यः, नान्यत्र । किमर्थमित्याहभिक्षासंज्ञा दिसुलभार्थम्, तत्र भिक्षा - भिक्षाचर्यार्थगमनं, संज्ञा-संज्ञाभूमौ गमनं तत आगमनं चैतद् द्वयमपि सुलभं भवति तदर्थं तत्र वस्तव्यम्, तत्र साधुसाध्वीनां परस्परं संपर्काभावादिति ॥१३॥ अथ निर्ग्रन्थीनां कीदृशे उपाश्रये वस्तु न कल्पते 2 इत्येव प्ररूपयितुमाह- 'नो कप्पर निगंीणं' इत्यादि । सिंघाडगंसि छाया -नो कल्पते निर्ग्रन्थीनां आपणगृहे वा रथ्यामुखे वा शृङ्गाटके घा चतुष्के वा चत्वरे वा अन्तरापणे वा वस्तुम् ॥ सू० १२॥ चूर्णी - 'नो कप्पड़' इति । नो न कल्पते तावत् निर्ग्रन्थीनाम् आपणगृहे वा 'दुकान' इति प्रसिद्धे. यत् खलु गृहम् आपणमध्ये वर्त्तते, आपणैः समन्तात्परिक्षिप्तं भवति, अथवा मध्यभागे यद् गृहं द्वाभ्यामपि पार्श्वाभ्यां यस्याssपणा भवन्ति तद् आपणगृहं तस्मिन् रथ्यामुखे वा रथ्या इति मार्ग, रथ्यायाः पार्श्वे यद् गृहं तद् रथ्यामुखम् । तच्च त्रिविधम् - रथ्याभिमुखम् १, रथ्याबहिर्मुखम् २, रथ्योभयतोमुखम् ३ । तत्र यद् गृहं रध्यायाः पार्श्वे वर्त्तते तद् रथ्याभिमुखम् १, यस्य पृष्ठतो रथ्या वर्त्तते तद् रथ्याबहिर्मुखम् २, यस्यैकं द्वारं रथ्यायाः पराङ्मुखम्, एकं द्वारं चरध्याया अभिमुखं भवेत् तत् रध्योभयतोमुखम् ३ | अथवा यस्माद् गृहाद् रथ्या प्रवहति तद् रथ्यामुखमुच्यते, अथवा यस्य गृहस्य मुखं रथ्यायां राजमार्गे भवति तद् रथ्यामुखम्, तस्मिन् तथा शृङ्गाटके वा शृङ्गाटक तावत् त्रिकोणाकारः फलविशेषः, तदाकारेण यत्र मार्गो भवति तत्, मार्गत्रयमिलनस्थानमित्यर्थ., तस्मिन् शृङ्गाटकस्थिते गृहे । चतुष्के - चतुष्कं पुनश्च - तुर्णां मार्गाणां संमिलनस्थानम्, यत्र चत्वारो मार्गा आगत्य मिलन्ति तत्स्थानं चतुष्कं व्यपदिश्यते, तस्मिन् चतुष्कस्थिते गृहे वा, चत्वरे वा - चत्वरं नाम यत्र षण्णां मार्गाणां संमेलनं भवति तत्, तस्मिन् चतुष्कस्थिते गृहे वा, अन्तरापणे वा - अन्तरापणस्तावत् यत्र अन्तरन्तो " सूत्रम्--नो कप्पइ निग्गंथीणं आवणगिहंसि वा रत्थामुहंसि वा, वा चक्कंसि वा चच्चरंसि वा अंतरावणंसि वा वत्थए ||६० १२||
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy