________________
चूर्णिभाष्यावचूरी उ० १ सू०१३-१५
वसतिवासविधिः १३ मध्ये-मध्ये आपणा भवन्ति स हट्टमार्ग 'इत्यर्थः, स च एकपाद्येन द्वाभ्यां वा पार्श्वभ्यां यत्र भवेत् तत्, अथवा यद् गृहं स्वयमेव आपणरूपं तद् अन्तरापणमुच्यते, यत्र एकेन द्वारेण आपणव्यवहारः क्रियते, द्वितीयेन तु द्वारेण पुनर्गृहकार्य विधीयते तद् गृहम् अन्तरापणम् , तस्मिन् । एतेषु पूर्वोक्तेपु उपाश्रयेषु निम्रन्थीनां वस्तुं न कल्पते । एतेषु उपाश्रयेषु वसन्तीनां निम्रन्थीनां जनसमुदायस्य गमनागमनबाहुल्यात् स्वाध्यायादि न सम्यग् जायते, तथा अनेकविधजनावलोकने परिणयनादिमहोत्सवाद्यवलोकने च पूर्वस्मृति सभवाच्चित्तवृत्तौ विकारसंभवः, कामुकजनद्वारा निर्ग्रन्ध्या अपहरणमपि संभवेत् , इत्यादिकारणैः संयमात्म-विराधनासंभवादेतादृशेषु उपाश्रयेषु निम्रन्थीनां वासः प्रतिषिद्धःः ॥१२॥
पूर्वोक्तेषु उपाश्रयेषु निम्रन्थानां वस्तुं कल्पते इति प्रदर्शयति-कप्पई' इत्यादि । सूत्रम्--कप्पइ निग्गंथाणं आवणगिहंसि वा जाव अंतरावणंसि वा बत्थए ॥सू०१३। छाया -कल्पते निग्रन्थानां आपणगृहे वा चावत् अन्तरापणे वा वस्तुम् ॥सू०१३॥
चौँ —'कप्पई' इति । कल्पते निग्रन्थानाम् आपणगृहे वा यावत् अन्तरापणे वा, यावत् पदेन रथ्यामुखे वा शङ्गाटके वा चतुष्के वा चत्वरे वा, इति सग्रहः । साध्वीसूत्रे कथितेषु सर्वविधेषु उपाश्रयेषु साधूनां वस्तु कल्पते, पुरुषत्वेन तेषां दोषाभावात् ॥ सू० १३ ॥
अत्राह भाष्यकारः-'आवणगिहाइएखं' इत्यादि । भाष्यम्-आवणगिहाइएमुं, निग्गथीहि न तत्थ वसियव्वं । पुरिसाणं आवाओ, निग्गयीणं भवेज्ज दोसटुं ॥१४॥ निग्गंथाणं कप्पड़, पुवुत्तेमु य समग्गठाणेसु । तेसिं पुरिसत्तणओ, नो दोसा पुरिससंसग्गा ॥१५॥ छाया -आपणगृहादिकेषु निम्रन्थीभिर्न तत्र वस्तव्यं । पुरुषाणामापातो निम्रन्थीनां भवेद् दोपार्थम् ॥१४॥ निर्ग्रन्थानां कल्पते पूर्वोक्तयु च समग्रस्थानेषु । तेषां पुरुपत्त्वतो नो दोषाः पुरुपसंसात् ॥ १५॥
अवचूरी-'आवणगिहाइएमुं' इति । आपणगृहादिपु पूर्वोक्तेषु स्थानेषु निर्ग्रन्थीभिस्तत्र न वस्तव्यम्, यतस्तत्र पुरुषाणामनेकविधानामपशब्दादिवादिनामपि आपात आगमनं भवति स च निम्रन्थीनां स्त्रीजातित्वेन दोपाय भवतीति ॥१४॥
निग्रन्थानां च पूर्वोक्तेपु समग्रस्थानेषु आपणगृहादिपु वस्तुं कल्पते, यतस्तेषां पुरुपत्वेन पुरुषसंसर्गात् नो-नैव केचिदपि दोषा भवेयुरिति ॥१५॥
पुनर्निर्ग्रन्थीनामुपाश्रयविधि प्रदर्शयति-'नो कप्पइ....अवंशुय०' इत्यादि ।