________________
चूंर्णिभाष्यावचूरी उ० १ सू० १०-१२
वसतिवासविधिः .११ सूत्रम्--से गामंसि वा जाव रायहाणिसि वा एगवगडाए एगदुवाराए एगनिक्खमणपवेसाए नो कप्पइ निग्गंथाणं वा निग्गंथीणं वा एगयओ वत्थए ।सू० १०॥
छाया-अथ नामे वा यावत् राजधान्यां वा एकवगडाके एकद्वारके एकनिष्क्रमणप्रवेशके नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा एकतो वस्तुम् ॥ सू० १०॥
चूर्णी-'से गामंसि वा' इति । अथ ग्रामे वा यावत् राजधान्यां वा एकवगडाके 'वगडा' इति देशी शब्दः परिक्षेपवाची, एका वगडा-परिक्षेप. प्राकारो यस्य तत् एकवगडाकम्, तस्मिन् एकप्राकारयुक्ते, ग्रामादौ इत्यर्थः, एवम्-एकद्वारे एकमेव द्वारं यस्य ग्रामादेस्तद् एकद्वारम्, तस्मिन्-एक्द्वारयुक्ते, एकनिष्क्रमणप्रवेशके एकं एकमेव निष्क्रमणं निस्सरणमार्ग., एक एव च प्रवेशः-प्रवेशमागों यस्य तत् एकनिष्क्रमणप्रवेशकं तस्मिन् एकनिष्क्रमणप्रवेशयुक्ते ग्रामादौ इत्यर्थः, यस्य प्रामादे. निर्गन्थानां निर्ग्रन्थीनां च निष्क्रमणं प्रवेशश्च एकेनैव द्वारेण भवेत् तादृशे ग्रामादौ निम्रन्धानां निर्ग्रन्थीनां च द्यानां एकतः-एकत्र वस्तु स्थातुं न कल्पते । अत्र चतुर्भङ्गी भवति ।
यथा-१- एका वगडा-एक द्वारम् । २-एका वगडा-अनेकानि द्वाराणि । ३-अनेका वाडा-एकं द्वारम् । ४-अनेका वगडा-अनेकानि द्वाराणि । अत्र चतुर्थो भङ्गः शुद्धः, 'सं ग्राह्य इति ॥ सू० १०॥
ययेव तर्हि कीदृशे ग्रामादौ वस्तुं कल्पते । इति प्रदर्शयति-‘से गामंसि वा' इत्यादि ।
सूत्रम्--से गामंसि वा जाव रायहाणिसि वा अभिणिवगडाए अभिनिदुवाराए अभिणिक्खमणपवेसाए कप्पइ निग्गंथाणं वा निग्गथीणं वा एगयओ वत्थए ।सू० ११॥
छाया-अथ ग्रामे वा यावत् राजधान्यां वा अभिनिवगडाके अभिनिवारके-अभिनिष्क्रमणप्रवेशके कल्पते निम्रन्थानां वा निम्रन्थीनां वा पकतो वस्तुम् ॥ सू० ११ ॥ .
चूर्णी -'से गार्मसिना' इति । अथ ग्रामे वा यावत् राजधान्यां वा अभिनिवगडाके अभिशब्दोऽनेकार्थ., नि-शब्दो नियतार्थकः वगडाशब्दः प्राकारार्थक इति, अभि-अनेका, नि-नियता वगडा-प्राकारो यत्र तत् अभिनिवगडाक, तस्मिन् अनेकनियतपरिक्षेपयुक्त ग्रामादौ, तथा अभिनिद्वारे- अनेकद्वारयुक्ते अभिनिष्क्रमणप्रवेशके-अनेकनिष्क्रमणप्रवेशमार्गयुक्ते प्रामादौ तत्र निर्ग्रन्थानां निर्ग्रन्थीनां च एकतः एकत्र एतादृशे एकस्मिन् ग्रामादौ वस्तु कल्पते ॥ सू० ११॥
अत्राह भाष्यकार:-'खेत्ते' इत्यादि । भाष्यम्--खेत्ते संकुचिए खलु, निक्खमणं तह पवेसणं एग । तत्थेगत्थ ठियाणं, गगणागमणे य बहुदोसा ॥१२॥ तम्हा अणेगवगडा, अणेगदारा भवंति जत्थेव । तत्थेव निवसियचं, भिक्खासण्णाइसुलभत्थं ॥१३॥