________________
वृहत्कल्पसूत्रे अवचूरी-'वाहिरिय०' इति । वाहिरिकारहितग्रामादिके सपरिक्षेपे सति अबाहिरिके ग्रामादिके ग्रामादारभ्य राजधानीपर्यन्तस्थाने हेमन्तग्रीष्ममासेषु हेमन्तादिग्रीष्मान्तेषु ऋतुबद्धकालसम्बन्धिषु अष्टसु मासेषु निर्ग्रन्थानामेकं मासं वस्तुं कल्पते, निम्रन्थानामेकं मास यावदेकस्थानवासस्य कल्पत्वात् ॥८॥ तथा-'वाहिरियसहिय०' इति । सपरिक्षेपे सति सबाहिरिके परिक्षेपाद् वहिर्जननिवाससहिते प्रामादौ मासद्विकं द्वौ मासौ यावद्वस्तुं प्रकल्पते, तादृशस्थानम्य वसतिदययुक्तल्वात् , तत्रापि यदि प्रामाद्यन्तस्तिष्ठेयुस्तदा तेषामन्त स्थानां निग्रन्थानां भिक्षा-भिक्षाचर्या अन्तः प्रामाद्यभ्यन्तरे एव कत्तुं कल्पते, नतु वाहिरिकायाम् , यदि च बहिस्तिष्ठेयुस्तदा बाह्यानां वहिःस्थितानां तेषां बहिः बाहिरिकायामेव भिक्षाचर्या कत्तुं कल्पते, नतु ग्रामाघभ्यन्तरे, इति निम्रन्थानां तत्र वासविधिविज्ञेयः ॥९॥ अधिकवासनिषेधे कारणमाह
'एगत्थाहिय०' इति । एकत्र एकस्मिन् ग्रामादौ मधिके वासे सति निम्रन्थानां बहवो दोषा भवन्ति, तथाहि-प्रथमं तत्र स्नेहबन्धः श्रावकश्राविकादिभिः सह जायते तजन्यो टोपः, तथा चाधिके वासे तत्रत्यानां मनसि निर्ग्रन्थान् प्रति अश्रद्वा जायते--यदेते कियन्तं कालमत्र स्थास्यन्ति ! कदा गमिष्यन्तीत्यादि, पुनश्च स्नेहबंधेन च्यादिससर्गे ब्रह्मवतेऽपि शङ्का भवेत् , तथा स्नेहवशात् आधाकर्माहारग्रहणमपि जायते, इत्यादिकारणेन निर्ग्रन्थानां संयमत्य आत्मनश्च विराधनमवश्यम्भावि, तस्माच्छास्त्रोतकालादधिकं न वस्तव्यमिति ॥१०॥ एवं' इति एवम् अनेनैव रीत्या निर्ग्रन्थीनां निम्रन्थकालमानात् निर्ग्रन्थानां वासविधौ यत् कालमानं मासरूपं द्विमासरूपं च प्रोकं तस्मात् द्विगुणम् एकमासस्थाने मासद्विकम् , द्विमासस्थाने मासचतुष्टयमित्येवंरूपं द्विगुणं कालमानं कथितम् , तथाहि-निर्ग्रन्थीनामबाहिरिके ग्रामादौ, द्वौ मासौ यावत् स्थातुं कल्पते, सबाहिरिके ग्रामादौ च चतुरो मासान् यावत् स्थातुं कल्पते इति भावः । अन्यो विधिभिक्षाचर्यारूपो निम्रन्थसमान एव विज्ञेयः । निम्रन्थानां निर्ग्रन्थीनां च समानेऽपि श्रामण्ये कथमेषो भेदः प्रतिपादितः ? तत्राह-ताश्च स्त्रीजातीयाः सन्ति ततस्तासां ब्रह्मवतादिरक्षानिमित्तमेतद् आज्ञप्तं भगवतेति ।
तदधिके वासे च ये निम्रन्धविषये दोषाः प्रोक्तास्ते तु निग्रन्थीनामप्यनिवार्या एव भवन्ति ततः शास्त्रोक्तसमयादधिकं ग्रामादौ कुत्रापि नैव वस्तव्यमिति भावः । ग्लानत्वादिकारणे तु यावत्कालं ग्लानत्वं न निवत्तते तावकालं तत्र वस्तुं कल्पते, ग्लानत्वे निवृत्ते नैकमपि दिवसं तत्र स्थातव्यम् , अन्यत्र गन्तव्यमेवेति भावः ॥११॥
॥ इति मासकल्पप्रकरणम् ॥ पूर्व निर्ग्रन्थानां निर्ग्रन्थीनां च मासकल्पविधिः प्रोक्तः, सम्प्रति तेपामेकस्थाने वस्तु न कल्पते, इति विधिमाह-से गामंसि वा' इत्यादि ।