________________
अणिमायावचूरी उ० १ सू० ६-७
वसतिनिवासविधिः ७. तत् जलस्थलेति द्विप्रकारयुक्तं स्थानं तस्मिन् , निगमे वा-निगमः नेगमानां वणिजकानां स्थानं, निगमे भवा नैगमाः इति व्युत्पत्या तस्मिन्, आश्रमे वा आश्रमः प्रथमतस्तापसैरावासितः पश्चादपरेऽपि जना आगत्य संवसन्ति, तादृशं स्थानं तस्मिन् , संनिवेशे वा, संनिवेशः यत्र जनसमुदायरूपः सार्थों व्यापारादिनिमित्तं प्रस्थित' सन् अन्तरान्तरा वासमधिवसति सः, तस्मिन् तादृशे स्थाने, संवाहे वा संवाहः यत्र कृषीवला अन्यत्र कर्षण कृत्वा, वणिजो वा, वाणिज्यनिमित्तमन्यतः धान्यादिकं संवाह्य-आनीय-पर्वतादौ विषमे स्थाने धान्यादिकं कोष्ठागारादौ च प्रक्षिप्य वसन्ति सः, तस्मिन् तादृशे स्थाने, घोपे वा-घोषः आभीरपल्ली तस्मिन् , अंशिकायां वा अंशिकानाम यत्र ग्रामस्या तृतीयश्चतुर्थो वा भाग आगत्य वसति, ग्रामांशत्वाद् अंशिका प्रोच्यते सा तस्यां वा, पुटभेदने वा, पुटभेदनं पुटानां कुङ्कुमादिपुटानां यत्र नानादिग्भ्य आनीय विक्रयार्थ भेदनं क्रियते, तत् तस्मिन् तादृशे स्थाने वा, राजधान्यां वा, राजधानी यत्र राजा वसति सा तस्यां वा, एतादृशे पूर्वोक्तस्वरूपे प्रमादौ सपरिक्षेपे कण्टकवृत्तिभित्यादिपरिक्षेपयुक्ते, पुनश्च अबाहिरिके बाहिरिका यस्य प्रामादेः परिक्षेपाद् बहिर्गृहपतिर्भवेत् सा, न विद्यते वाहिरिका बहिर्जनबसतिः 'पुरा' इति प्रसिद्धा यस्य ग्रामादेः स अबाहिरिको ग्रामादिः, तस्मिन् एतादृशे ग्रामादौ निम्रन्थानां श्रमणानां हेमन्तप्रीष्मेषु हेमन्तादिग्रीष्मान्तेषु ऋतुबद्धकालसम्बन्धिषु अष्टसु मासेषु मध्ये एक मासं यावत् वस्तुम् अवस्थातुं कल्पते ततोऽधिकनिवासेऽतिपरिचयेनाऽनादरसंभव , रुयादीनां वारं वारं दर्शनभाषणादिना संयमात्मोभयविराधनादयो दोषाः संभवन्ति, अधिककालवासेन भद्कगृहस्थानां श्रमणोपरि गाढतरः स्नेहः संजायते, तेनाधाकर्मादिदोषदुष्टमशनादि प्रतिलाभयन्ति, कदाचित्ततो विहारे तेषां गाढतरस्नेहसम्बधेन ते पुरुषाः स्त्रियो वा विरहद खदःखिता अपि भवेयुः, अधिकनिवासे क्षेत्रमपि नीरसं भवति, इत्याद्यनेके दोषाः श्रमणानामापतन्ति तत ऋतुबद्धकाले ग्रामादौ एकमेव मासं यावद् वस्तुं कल्पते नाधिकमिति । आगाढकारणे तु कल्पते तत् प्रदर्यते-यदि आचार्यादीनां शरीरदौर्बल्येन तत्प्रायोग्य भक्तपानादिकं तदासन्नग्रामादौ दुरापं भवेत् तदा कियत्कालं यावत्, तथा साधुर्वा ग्लानो जायते, अन्यत्र औषधभैषज्यादि सुलभं न भवेत् तेन कारणेत मासादधिकं यावत्कालपर्यन्तं ग्लानः प्रगुणीभूतो न भवेत्तावत्कालपर्यन्तमपि तत्र वस्तुं कल्पते । यदि ग्लानः प्रगुणीभूतो भवेत्तदा तदैव तस्मात् स्थानान्निर्गन्तव्यमिति तात्पर्यम् ॥सू० ६॥
अथ ग्रामादिवासविषयेऽन्यमपि विधि प्रदर्शयति सूत्रकारः --'से गामंसि वा' इत्यादि ।
मूलम्-से गामंसि वा जाव रायहाणिसि वा सपरिक्खेवंसि सवाहिरियसि कप्पइ निम्गंथाणं हेमंतगिम्हामु दो मासे पत्थए, अंतो इक्कं मास, वाहिं इक्कं मासं, अंतो वसमाणाणं अंतो भिक्खायरिया, वाहि वसमाणाणं चाहिं भिक्खायरिया ॥सू० ७॥