________________
वृहत्यल्पसूत्रे छाया-अथ ग्रामे वा यावत् राजधान्यां वा सपरिक्षेपे सबाहिरिके कल्पते निर्ग्रन्थानां हेमन्तग्रीष्मेपु द्वौ मासौ वस्तुम् । अन्तः एकं मासं बहिरेकं मासम्, अन्तर्वसताम् अन्तर्भिक्षाचर्या, वहिर्वलतां वहिभिक्षाचर्या ॥सू० ७॥
चूर्णी-'से गामसि वा' इति । अथ ग्रामे वा यावत् राजधान्यां वा, ग्रामत आरभ्य राजधानीपर्यन्तं सर्वत्र ग्रामादौ पूर्वप्रतिपादितस्वरूपे सपरिक्षेपे–परिक्षेपसहिते, सबाहिरिके परिक्षेपाद् बहिर्जननिवाससहिते निर्ग्रन्थानां हेमन्तग्रीष्मेषु ऋतुबद्धकालसंवन्धिषु अष्टसु मासेषु द्वौ मासौ मासयपर्यन्तं वस्तु कल्पते । पूर्वमेकमासं यावत् निवासः प्रोक्तः, अस्मिन् सूत्रे च द्वौ मासौ, इति प्रोक्तं तत्कथम् ? अत्राह-पूर्वसूत्रे सपरिक्षेपे सति वाहिरिकारहितत्वेन एकं मासमेव निवासः कथित', अत्र तु यद ग्रामादि सबाहिरिकं भवेत्तत्र द्विमासमपि वस्तुं कल्पते, इत्येवं दर्शयति सूत्रकार -अंतो इक इति, सबाहिरिके ग्रामादौ अन्तः-ग्रामादिपरिक्षेपमध्ये एक मासं, वहिश्च एकं मासं यावत् वस्तुं कल्पते, तत्रापि अन्तर्वसतां परिक्षेपान्तर्निवासं कुर्वतां निर्ग्रन्थानां अन्तरेव परिक्षेपमध्ये एव भिक्षाचर्या करणीया भवेत् , वहिः परिक्षेपाढहिर्भागे जनवसतौ वसतां निम्रन्थानां बहिग्रांमाहिरेव वाह्यवसतावेव भिक्षाचर्या करणीया भवेत् , इत्येष विशेषोऽत्र बोध्यः ॥
ग्रामाधन्तर्वमद्भिर्निग्रन्थैर्मासकल्पे परिपूर्णे सति ग्लानादिकारणवशात्तदन्यत्र विहरणं कर्तुं न शक्यते तदा द्वितीये मासे वाहिरिकायां संक्रमणं कर्त्तव्यम् , पीठफलकाद्यपि तत्रैव ग्रहीतव्यं नाभ्यन्तरतो वहिर्नेतव्यम् , यदि वाहिरिकायां पीठफलकादि न लभ्यते तदा अन्तरुपाश्रयस्वामिनं पृष्ट्वा तदाज्ञया नेतुं कल्पते, न त्वनापृच्छ्चति । यद्यनापृच्छय नीयते तदा स्तेनाहृतादिनानाविधदोषसंभवः, संयमात्मविराधनाऽपि भवितुमर्हति ॥मू०७॥
पूर्व निर्ग्रन्थानामृतुबद्धकालसम्बन्धिनिवासविधिः प्रोक्तः, साम्प्रतं निम्रन्थीनां स प्रोच्यते'से गामंसि वा' इत्यादि ।
मूलम् -से गामंसि वा जाव रायहाणिसि वा सपरिक्खेवंसि अवाहिरियंसि कप्पइ निगंथीणं हेमंतगिम्हासु दो मासे वत्थए ॥सू० ८॥
छाया-अथ ग्रामे वा यावत् राजधान्यां वा सपरिक्षेपे सवाहिरिके कल्पते निर्ग्रन्थीनां हेमन्तग्रीष्मेपु द्वौ मासो वस्तुम् ॥१० ८॥
चूर्णी-से गामंसि वा' इति । अथ ग्रामे वा यावत् राजधान्यां सपरिक्षेपे अबाहिरिके बाह्यवसतिरहिते निम्रन्थीनां ऋतुबद्धकाले अष्टमासरूपे हो मासौ यावत् वस्तुं कल्पते । ननु निर्ग्रन्थानामेतादृशे ग्रामादौ एकं मासं यावदेकत्र वसनमनुज्ञातं, निर्ग्रन्थीनां च द्वौ मासौ इति कोऽत्र हेतु', महात्रतानि तु समानान्येव यानाम् ? इत्यत्राह-यानां महावतेषु समानेष्वपि तासां मासे मासे विहरणे वीशरीरत्वादनेके दोपाः समापतन्ति ततो भगवता निर्ग्रन्थीम्यो द्विमासं यावदेकत्र निवामकरणमनुज्ञातमिति ॥सू० ८॥