________________
६
generसूत्रे
भाष्यम् - आहारो पुन्वत्तो, सो य कहि भुंजर समुवि । इय वसविहिमेत्थ य, वन्ने एस संबंधो ॥७॥
छाया - आहार पूर्वमुक्तः स च कुत्र भुज्यते समुपविश्य । इति वसतिविधिमत्र च वर्णयति एप सम्बन्धः ||७||
अवचूरिः – ' आहारों' इति । पूर्व पूर्वसूत्रे आहार. उक्तः, स चाहारः कुत्र समुपविश्य भुज्यते इति, एतदवलम्ब्य अत्र च वसतिविधि ' चन्ने' वर्णयति । एष पूर्वसूत्रेणास्यसम्बन्ध इति ||७|
इत्यनेन सम्बन्धेन निर्ग्रन्थानां निर्ग्रन्योनां च ऋतुबद्वादिकाले एकस्मिन् क्षेत्रे कियन्तं कालं वस्तुं कल्पते । इति प्रदर्शयितुकाम सूत्रकारः प्रथमं निर्ग्रन्थसूत्रमाह - ' से गामंसि बा' इत्यादि ।
मूलम् - - से गामंसि वा नगरंसि वा खेडंसि वा कवडंसि वा 'मडवंसि वा पट्टणंसि वा आगरंसि वा दोणमुहंसि वा निगमंसि वा आसमंसि वा संनिवेसंसि वा संवासि वा बोसंसि वा असिसि वा पुडभेयणंसि वा रायहार्णिसि वा सपरिक्खेवंसि अबाहिरियंसि कप्पइ निग्गंथाणं हेमंत गिम्हासु एगं मासं वत्थए, ||६||
छाया- - अथ ग्रामे वा नगरे वा खेटे वा कर्वटे वा मडम्बे वापत्तने वा आकरे वा द्रोणमुखे वा निगमे वा आश्रमे वा संनिवेशे वा संवाहे वा घोपे वा सिकायां वा पुटभेदने घी राजधान्यां वा सर्परिक्षेपे अवाहिरिके कल्पते निर्ग्रन्थानाम् हेमन्तग्रीष्मेषु पर्क मासं वस्तुम् ॥ ६॥
:-~
1
चूर्णी - से गामंसि वा इति । 'से' अथ ग्रामे - गम्यो गननीयः प्रापणीयो वा अष्टादशानां कराणां यः स ग्रामः, ग्रसते बुद्ध्यादिगुणान् इति वा ग्रामः, पृषोदरादिना सिद्धि:, तस्मिन् ग्रामे, नगरे वा, 'नयरे' इत्यस्य नकरे इति च्छाया, तंत्र करः अष्टादशविधो राजदेयो भाग, स न विद्यते यत्र नकरम्-नगरम् पृषोदरादित्वात् ककारस्य गकारः, नञो लोपाभावश्चेति, तस्मिन् नगरे, खेटे वा खेटः धूलिनाकार परिक्षितजननिवासः तस्मिन् कर्बटे वा, कर्वटः कुत्सितनगरम्, तस्मिन् वा, मडत्रे वा मडम्बो यस्य सर्वतश्चतुर्दिक्षु सार्द्धगव्यूतपर्यन्तं ग्रामादिकं न भवति सः, तस्मिन् वा, पत्तने वा, पत्तनं द्विविध- जलपत्तनं स्थलपत्तनं च यत्र नावादिना गम्यते तत् जलपत्तनम्, यत्र शकटघोटकादिभिर्गम्यते तत् स्थलपत्तनम्, तस्मिन् एतादृशे द्विविधेऽपि पत्तने वा, आकरे वा, आकरः खनिः लोहताम्ररूप्याद्युत्पत्तिस्थानं, यत्र लोकाः प्रस्तरधातुघमनादिना 'लोहता रूप्यादि संपादयन्ति तस्मिन् तादृशे स्थाने वा, द्रोणमुखे वा द्रोणमुखम् - द्रोणः परिमाणविशेष इति परिमाणस्य परिमितजलरूपस्य मुख, यत्र समुद्रस्य कर्मयः यथासमयमागच्छन्ति