________________
भाष्यम् उ० १० सू० ३२-३७
दीक्षापर्यायक्रमेण सूत्राध्यापनविधिः २६७ छाया-पञ्चदशवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते चारणभावना नामाध्ययन मुद्देष्टुम् ॥ सू० ३२ ।।
भाष्यम्-‘पन्नरसवासपरियायस्स' पञ्चदशवर्षपर्यायस्य यस्य पञ्चदशवर्षात्मको दीक्षाकालो व्यतीतस्तादृशस्य, 'समणस्स णिग्गंथस्स' श्रमणस्य निर्ग्रन्थस्य 'कप्पई' कल्पते, 'चारणभावणा नाम अज्झयणं' चारणभावनानामकमध्ययनम् 'उदिसित्तए' उद्देष्टुमध्यापयितुं कल्पते । पञ्चदशवर्षपर्यायस्य साधोः चारणभावनानामकमध्ययनम् अध्यापयितुं कल्पते । अस्यायमतिशयः-चारणभावनानामकाऽध्ययनाध्येतुश्चारणलब्धिरुत्पद्यते, अथवा येन तपोविशेषेण कृतेन जराचारण-विद्याचारण-लब्धिर्जायते इति तत्रैव वर्णनमुपलभ्यते ॥ सू० ३२ ॥
षोडशवर्षपर्यायमाश्रित्याह-'सोलसवासपरियायस्स' इत्यादि ।
सूत्रम्-सोलसवासपरियायस्स समणस्स णिगंथस्स कप्पइ तेयनिसग्गे नाम अज्झयणे उद्दिसित्तए' ॥ सू० ३३॥
छाया- पोडशवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते तेजोनिसगों नामाध्ययनमुद्देष्टुम् ॥ सू० ३३ ॥
भाष्यम्-'सोलसवासपरियायस्स' षोडशवर्षपर्यायस्य यस्य साधोदीक्षाकालः षोडशवर्षात्मको व्यतीतः स षोडशवर्षपर्यायस्तस्य 'समणस्स णिग्गंथस्स' श्रमणस्य निर्ग्रन्थस्य 'कप्पड़े कल्पते तेयनिसग्गे नामं अज्झयणे' तेजोनिसर्गों नामकमध्ययनम् 'उद्दिसित्तए' उद्देष्टुम्- अध्यापयितुम् । तेजोनिसर्गाऽध्ययनाध्येतुस्तेजोनिःसरणं भवति-तेजसो निस्सरण-प्रादुर्भावो जायते, अयमेवातिशयः ॥ सू० ३३ ॥
सप्तदशपर्यायमधिकृत्याऽऽह- 'सत्तरसवासपरियायस्स' इत्यादि ।
सूत्रम्-सत्तरसवासपरियायस्स समणस्स णिग्गंथस्स कप्पई आसीविसभावणा नाम अज्झयणे उदिसित्तए ॥ सू० ३४ ॥
छाया-सप्तदशवर्षपर्यायस्य श्रमणस्य निग्रन्थस्य कल्पते आशीविपभाषना नामाऽध्ययनमुद्देष्टुम् ।। ३४॥
भाष्यम् –'सत्तरसवासपरियायस्स' सप्तदशवर्षपर्यायस्य, यस्य दीक्षाकालः सप्तदशवर्षात्मको व्यतीतः सः सप्तदशवर्षपर्यायः, तादृशस्य 'समणस्स णिग्गंथस्स' श्रमणस्य निम्रन्थस्य 'कप्पई' कल्पते 'आसीविसभावणा नाम अज्झयणं' आशीविषभावनानामकमध्ययनम् 'उदिसित्तए' उद्देष्टुम्--अध्यापयितुं कल्पते, आशीविषभावनाऽध्ययनपाठकस्य आशीविषलब्धिः